________________ विमलप्रभायां [लोकधातु राशावेके स्थितोऽर्कः सकलमृतुगणं मासपक्षान् करोति खण्डे खण्डे च मासो भवति भुवितले द्वादशारे क्रमेण / यन्मानं यत्र खण्डे भवति दिनवशात् सप्तमे तन्निशायां लक्षादद्धमार्गे दिनमपि पुरतः पृष्ठतोऽर्कस्य रात्रिः // 60 // राशावेके स्थितोऽर्कः सकलमृत गणं मासपक्षान् करोतीति / इहैकराशी यत्र कुत्रचित् मेषादिके स्थितः सूर्यो द्वादशखण्डे षड् ऋतून् द्वादशमासान् चतुर्विंशति पक्षान् करोति; राशिचक्रभ्रमणवशेन; इह मेरोः सर्वदि[68b]गभागे यो राशिश्चक्रभ्रमणवशाद दक्षिणाग्नि स्पृशति, स सप्तमखण्डदिक्प्राप्तो मेरुशृङ्गं स्पृशति हिमपर्वतोऽद्ध्वं व्रजतीति न्यायात् सर्वमृतुगणादिकं सकलं प्रत्येकं राशौ स्थितस्यार्कस्य वेदितव्यमिति / 10 खण्डे खण्डे च मासो भवति भुवितले द्वादशारे क्रमेणेति / इह द्वादशारे भुवितले प्रत्येकखण्डे प्रत्येकमासो भवति एकराशौ स्थितस्य सूर्यस्य येन प्रकारेण तथा कथ्यते इह एकराशिनिर्देशेन सर्वराशयो वेदितव्या इति / अत्र लघुजम्बूद्वीपे मेरोदक्षिणे T281 मेषादिराशयः किल प्रसिद्धाः, वसन्तादय ऋतवः, चैत्रादयो मासाः, एवं पक्षाः सर्वे 15 इति; तस्मात् तस्मिन् मेषराशौ स्थितोऽर्को यथा द्वादशखण्डे सर्वमृतुगणादिकं करोति तथोच्यते-इह मेरोदक्षिणखण्डे मेषस्थोऽर्को वसन्तऋतुर्वैशाखमासं करोति, अग्निकोणार्द्ध' द्वितीयखण्डे ज्येष्ठमासं करोति; एवमग्निकोणात् परार्धखण्डे आषाढं करोति, तृतीये एवं चतुर्थे मेरोः पूर्वखण्डपूर्वविदेहे श्रावणमासं करोति, पञ्चमे ईशार्द्धखण्डे भाद्रपदं करोति, ईशकोणे अपरार्द्ध षष्ठे खण्डे आश्विनं करोति, मेरोरुत्तरे सप्तमे 20 खण्डे कार्तिकं करोति, वायव्यकोणार्द्ध खण्डे अष्टमे मार्गशीर्ष करोति, वायव्यापराद्धे कोणे खण्डे नवमे पुष्यं करोति, मेरोः पश्चिमे दशमे खण्डे माघं करोति, नैऋत्यकोणापरा?' खण्डे फाल्गुनं करोति, नैऋत्यकोणापराः खण्डे' चैत्रं करोतीति / एवं मासद्वयेन खण्डद्वये ऋतुर्भवति; प्रत्येकखण्डे शुक्लकृष्णपक्षभेदेन पक्षद्वयं भवति / एवं षड् ऋतवो द्वादश मासाः चतुर्विंशति पक्षा द्वादशखण्डेषु चक्राकारा भ्रमन्तो ज्ञातव्या 25 इति / ___ अस्मिन् दक्षिणखण्डे यो मासो द्वादशराशिवशेन भवति संक्रान्तौ सोऽपरसंक्रान्ती दक्षिणावर्तेन नैऋत्यकोणे गच्छति, नैऋत्याद्ध कोणस्थोऽपरकोणार्द्ध गच्छति, अपरकोणार्द्धस्थो मेरोरपरगोदान्यां गच्छति, अपरगोदान्यां स्थितो वायव्यार्द्धकोणं गच्छति, वायव्याद्धकोणस्थोऽपरकोणार्द्ध गच्छति, अपरको[69a]णार्द्धस्थ उत्तरकुरु 3) व्रजति, उत्तरकुरुस्थ ईशानकोणार्धं गच्छति, तत्रस्थोऽपरकोणार्धं गच्छति, अपर 1. क. अग्निकोणाद्वे / 2. क. इषार्द्ध / 3. क. ईषकोणे / 4. क. ग. घ. नैऋत्यकोणार्द्ध / 5-6. क. फाल्गुणं०; ख. पुस्तके नास्ति / ७.क. गोदावन्यां; ग. गोदानीं।