________________ पटले] ज्योतिर्ज्ञानविधिमहोद्देशः 103 ऊवं षण्णागसंख्या इति / इह सप्तमभूवलयाद् ऊर्ध्व षडशीतिसहस्रयोजनसंख्या तपनमपि रवेश्चायने' चोत्तरे'ऽन्ते दक्षिणायनादौ स्वस्वखण्डे कर्कटादौ दक्षिणायनं स्वस्वसंक्रान्तिदिने भवति द्वादशखण्डेषु यथाक्रममिति; तस्मात् क्षीणश्च सव्ये भवति नरपते रुद्रसंख्यासहस्रम् / तस्मात् दक्षिणायनसंक्रान्तिदिनात् सव्येऽयने उत्तरायनं(णं) यावत् क्षीणो भवत्येकादशसहस्रं पञ्चसप्ततिसहस्रं तपनं सूर्यस्योद्ध्वं 5 वेदितव्यमिति एकाशीतिसहस्रं स(श)रपञ्चशतरहितं मध्यतो गोलरेखा भवति, योजनमानम् / तस्या गोलरेखाया यद्वद् द्विपातं (यद् वृद्धिपातं ) भवति सूर्यस्य तत् खखशरेषु इति पञ्चशताधिकपञ्चसहस्राणि योजनानामिति, उत्तरे रेखाया दक्षिणे च स्वस्वखण्डे राशिभोगवशेनेति / इदानीं सूर्यस्य प्रतिदिनं तिर्यक्क्रान्तिदिशखण्डेषु सव्योत्तरे उच्यते- 10 क्षाराब्धि लङ्घयित्वा व्रजति दिनकरो दक्षिणे यावदग्नि कैलाश(स)स्योत्तरे च व्रजति हिमगिरि चोत्तरे चोत्तरस्थः / बाणास्तिथ्याहताश्च व्रजति दिगयने योजनानां सहस्रं साक्षिा हीन्दुलब्धं त्यजति दिनदिने पञ्चभूतः समन्तात् // 59 // क्षाराब्धिं लङ्घयित्वा व्रजति दिनकरो दक्षिणे यावदग्निमिति / इह द्वादशार- 15 भम्यां प्रत्ये/68a कैकखण्डे राशिवशात् क्षाराब्धि लङययित्वा दक्षिणायने स्थितः सूर्यो दक्षिणाग्निवलयादिकं यावद् व्रजति समुद्रान्तसीम्न इति / ततः सीम्नोऽग्निवलयात् कैलाश(स)स्योत्तरे व्रजति हिमगिरिम्(ः), उत्तरे मार्गे उत्तरायन(ण)स्थः सूर्यो दक्षिणायनादिदिनं यावत् / बाणास्तिथ्याहताश्चेति / बाण इति पञ्च, तिथिरिति पञ्चदश; ताभिः पञ्च [पञ्च] दशभिर्हता बाणास्तिथ्याहता इति पञ्चसप्तति भवति / 20 तं(1) पञ्चसप्ततिसहस्रसंख्या योजनानां व्रजति दिनकरो दिगयने हिमादग्नि' यावदग्नेहिमवन्तं यावत् पञ्चसप्ततिसहस्रं योजनानां दक्षिणायनादिदिगविभागः; तं दिग्विभागं षड्मासैर्यथाक्रमेण व्रजति उत्तरायणे दक्षिणायने चेति / सार्धाक्षा होन्दुलब्धं त्यजति दिनदिने इति / सार्धद्वयशीतिशतभागलब्धं पञ्चसप्ततिसहस्रात् प्रतिदिनदिगविभागं योजनानां त्यजति सूर्यः। एवमुभयायनभोगेन राशिचक्रस्य मण्डलदिनानि'° 25 पञ्चषष्टयधिकशतत्रयसंख्या[का]नि रवेर्भवन्ति / एवं द्वादशखण्डेषु तिर्यक्क्रान्तिः सूर्यस्य वेदितव्येति / ___इदानीं प्रत्येकराशिस्थितस्य सूर्यस्य द्वादशखण्डभ्रमणवशाद् द्वादशमासभेद उच्यते 1-2. क. ०यनेश्चोत्तरे / 3. ख. दिने; क. संक्रान्तिभेदेन / 4. भो. APhel 1Dan Grib (वृद्धिपातं); अतः भोटानुसारं 'वृद्धिपातं' इत्येव सुवचम् / 5-6. ख. पुस्तके नास्ति / 7-8. क. पञ्चसप्ततिभिर्भवति / 9. क. हिमाग्नि / 10, ख. मण्डलदिनादि।