________________ विमलप्रभायां [लोकधातुसिंहे कुम्भे प्रविष्टे सति सूर्ये पञ्चमे वायव्यकोणार्धस्थिते, एकादशे च वह्निकोणार्धस्थिते विश्रु(षु)वं भवति; वसन्ताधू शरदर्दू भवतीति / द्विदशरसमहाविति द्वादशमे(शे) वह्निकोणापरार्धे स्थिते रसे वायव्यकोणे अपराद्धे स्थिते महावित्या गमपाठः; मीनगते सूर्य कन्यागते च विषुवद्वयं' भवति, वसन्तार्द्ध शरदद्धं भवतीति / 5 एवं द्वादशभूम्यां द्वादशराशिवशेन सूर्योदयास्तमनविभागेन द्वादश मासाः षड् ऋतवो भवन्ति / . इदानीं द्वादशभूम्यां द्वादशोत्तरायणानि द्वादश दक्षिणायनानि सूर्यराशिम्रमणवशेनोच्यते अस्मिन् वामायनं स्यादिति / अस्मिन्निति मेरोदक्षिणे भूखण्डे / कुतो दक्षिणे? 10 लघुजम्बूद्वीपे, तथागतधर्मदेशनावशात् / अ[67a]तो दक्षिणे भखण्डे वामायनम्, उत्तरायन(ण)मिति, मकरगते रवौ। एवं कुम्भसूर्ये द्वितीये भूखण्डे ; मीने तृतीयखण्डे अयनमपि नृणां मेषसूर्ये चतुर्थे / पश्चिमे भूखण्डे चतुर्थ इति / भूताख्ये पञ्चमेऽर्के वृषस्थे सति मिथुनगतरवौ षण्मही उत्तरायनं(ण) भवति / सप्तमे मेरोरुत्तरे। मार्तण्डे कर्कस्थे भवति हरिगते चाष्टमे भूमिखण्डे कन्यारन्ध्रे तुलार्के भवति च दशमे वृश्चिके रुद्रखण्डे / चापस्थे द्वादशे स्यादयनमपि नृणां द्वादशारे च भूम्याम् एवं सव्यायनं स्याद् रविगमनवशात् कर्कटादौ च राशौ // 57 / / मार्तण्डे कर्कटस्थे वामायनं भवति हरिगते अष्टमे भूखण्डे भवति; कन्यागते सूर्ये रन्धु नवमे भूखण्डे तुलार्के भवति च दशमे भूखण्डे वृश्चिकसूर्ये रुद्र एकादशमे 20 खण्डे५; चापस्थे द्वादशे खण्डे स्यादयनं नृणामपि सम्भावने, द्वादशारे च भूम्यां स्थितानां लोकानामुत्तरायनं (ण) द्वादशराशिभेदेनेति / एवं सव्यायनं स्यात् / एवमुक्तक्रमेण दक्षिणायनं रविगमनवशात् ककंटादौ च राशौ भवति / अस्मिन् मेरोदक्षिणे लघुजम्बूद्वीपभूखण्डे दक्षिणायनं कर्कटादित्ये भवति / एवं दक्षिणावर्ते च सिंहादित्ये द्वितीये तृतीये कन्यादित्ये तुलादित्ये चतुर्थे मेरोः पश्चिमे दक्षिणायनं भवतीति / वृश्चि25 कादित्ये पञ्चमे धनुरादित्ये षष्ठे मकरादित्ये सप्तमे मेरोरुत्तरे कुम्भादित्ये अष्टमे मीना दित्ये नवमे मेषादित्ये दशमे वृषादित्ये एकादशे मिथुनादित्ये द्वादशे भूखण्डे लोकानां दक्षिणायनं द्वादशराशिभेदेन भवतीति / [67b] इदानीं सूर्यस्य भूवलयादूज़ क्रान्तिमानमुच्यतेऊर्ध्वं षण्णागसंख्या तपनमपि रवेश्चायने चोत्तरेऽन्ते तस्मात् क्षीणश्च सव्ये भवति नरपते रुद्रसंख्यासहस्रम् / एकाशीतिसहस्रं शरशतरहितं मध्यतो गोलरेखा तस्माद् यद्वद्वि(यद् वृद्धि)पातं खखशरेषूत्तरे दक्षिणे च // 58 // 1. क. विशुद्धद्वयं / 2. क. रन्ते / 3. क. भूखण्डे / 4-5. क. वर्तेन; ग. ०वर्ते च। ६.ग. घ. पुस्तकयोः नास्ति। 30