________________ पटले] ज्योतिर्ज्ञानविधिमहोद्देशः त्यजति / दिननिशं चायनान्तं हि यावदुत्तरायणाद् दक्षिणायनं यावद् दक्षिणायनादुतरायणं यावदिति / हानिर्वृद्धिः षडंशेस्त्वपि रविशशिनोः षष्टिनाड्यां निशाहीति / इह षडंशे हानिर्भवति, वृद्धिर्भवति / षडंशः षष्टिनाड्यां दशनाड्यौ रात्रे निः; मकरान्मिथुनान्तं यावद् दिवावृद्धिरिति दिनस्य हानिः; कर्कटाद् धन्वन्तं यावद् रात्रिवृद्धिरिति; खलु' रविशनि(शि)नोर्हानिवृद्धीति षडंशे / ___ इह कैलाश(स)खण्डे छायानियमः, नार्यविषये इति / आर्यविषये दशांशे हानिवृद्धी उत्तरायणाद् दक्षिणायनान्तं दक्षिणायनान्ताद् उत्तरायना(णा)न्तमिति,छायानियमवशात् / एवं भोट'-लोच'-चोनादिदेशेषु नवांशे अष्टमांशे सप्तमांशे सम्भलविषयान्तं यावच्छायावशेन हानिर्वृद्धी वेदितव्याविति / इदानीं द्वादशखण्डे भूगोलो मूनि सूर्यभ्रमणवशेनोच्यतेयस्माच्छैले जनानां भवति हि विषुवं मेषसूर्ये तुलार्के तस्माद् द्वयष्टे च खण्डे खलु वृषभगते वृश्चिकस्थे तथव रन्ध्राख्ये वहिनसंख्ये मिथुनधनुगते दिक्प्रमाणे चतुर्थे मार्तण्डे कर्कटस्थेऽपि च मकरगते पञ्चमैकादशे च // 55 // यस्माच्छैले जनानां भवति हि विषुवं मेषसूर्ये तुलार्क इति / यस्मिन् भूखण्डे 15 मेषार्के वसन्तार्द्ध विश्रु(षु)वं भवति, तुलार्के शरदर्धं भवति; तस्मादेवं मेषार्के शरदड़ भवति, तुलार्के वसन्त-ऋत्वद्ध विश्रु(षु)वं भवति / एवं परस्परापेक्षिकया यस्मात् प्रथमभूखण्डात् शैले सप्तमे खण्डे" मेरोदक्षिणादुत्तर उत्तराद् दक्षिणे सप्तमे भूखण्डे विश्रु(षु)- 7280 वं भवति; तस्माद् ह्यष्टये(द्वयष्टे) चख(च)खण्डे खलु वृषभगते वृश्चिकस्थे तथैवेति ; इह यथा पूर्वोक्ते मे[66b]रोदक्षिणान्तरभूखण्डे मेषसूर्ये तुलार्के विश्रु(षु)वं 20 भवति, तथा किञ्चिन्नैऋत्यकोणे स्थितः ईश्वर(ईशान)कोणार्द्धभागे स्थिते च खल्विति निश्चितम् वृषभगते सूर्ये वृश्चिकस्थे विश्रु (९)वं तदा भवति; वसन्ताधू शरदद्धमिति / एवं रन्धाख्ये नवमे वह्निसंख्येष तृतीये भूखण्डे नैऋत्यकोणे अपरार्धस्थिते ईशानकोणार्धस्थिते विश्रु (षु)वं भवति / मिथुने सूर्यगते धनुषि गते च वसन्ताद्ध(धै। शरदद्ध भवति / दिकप्रमाणे दशमे चतुर्थमेरोः पूर्वभूखण्डे पश्चिमभूखण्डे च विश्रु ()वं भवति; 25 वसन्ताधू शरदद्धं भवतीति / मार्तण्डे कर्कटस्थेऽपि च मकरगते पश्चि(च)मस्थे एकादशे च पूर्वभूखण्डे विश्रु(षु)वं भवति; वसन्ताधू शरदर्धं भवतीति / सिंहे कुम्भे प्रविष्ट द्विदशरसमहौ मीनकन्यागते च अस्मिन् वामायनं स्यान्मकरगतरवौ कुम्भसूर्ये द्वितीये / मीने खण्डे तृतीये त्वयनमपि नृणां मेषसूर्ये चतुर्थे भूताख्येऽर्के वृषस्थे मिथुनगतरवौ षण्मही सप्तमे च // 56 // 1. घ, पुस्तके नास्ति / 2. क. ग. वोट / 3. भो० पुस्तके 'Li'(ली) मात्रं दृश्यते / 4. क. पुस्तके नास्ति / 5. ग. पुस्तके नास्ति / 6. क. संख्या /