________________ विमलप्रभायां लोकधातुएषां गमनपरिज्ञानार्थं राशिगोलमुच्यते ऋक्षं सव्ये चतुर्दशस्थाने, अव(प)सव्ये चतुर्दशस्थाने संस्थितो(ते) राशिभेदैरिति, राशीनां भेदः सपादनक्षत्रद्वयं प्रत्येकराशेस्तै राशिभेदैः सार्द्धत्रयोदशनक्षत्राणि मध्यगोलरेखायाः; अश्विन्यादीनि चित्राद्ध यावदुत्तरे / पुनर्मध्यगोलरेखायाः चित्रार्द्धादीनि सार्द्ध5 त्रयोदशनक्षत्राणि रेवत्यन्तानि दक्षिणे। चापा[65b]कारतुराशौ शिखिवलयगतं दक्षिणे गोलमध्यात्। धन्वाकारे षड्राशौ नक्षत्राद्धचक्रं ऋक्षचक्रं दक्षिणे गतं गोलविषुवरेखायां मध्यत इति / वामे तच्छोतशैलं सुकमलदलवत् मेषपूर्व तुलादौ। यथा दक्षिणे षड्ाशौ प्रत्येकनक्षत्रार्द्धचक्रगतं तथा गोलमध्यरेखादुत्तरे प्रत्येकराशिभेदेन षड्राशौ गतम् ; 10 मेषपूर्वे तुलादौ कन्यान्ते गतमिति; एवं तुलादौ मीनान्ते गतमिति / अत्र पूर्वार्द्ध मेषः, इशे (ईशाने') वृषः, उत्तरार्द्ध मिथुनः; पुनरुत्तरार्धे कर्कटः, वायव्ये सिंहः, पश्चिमाः कन्या', पुनः पश्चिमार्धे तुला; नैऋत्ये वृश्चिकः, दक्षिणार्धे धनुः, पुनर्दक्षिणार्धे मकरः, आग्नेय्यां कुम्भः, पूर्वार्धे मीनश्चेति गोले राशिन्यासः। अस्मिन् मेषादये तुलास्तमनम्, वृषोदय वृश्चिकास्तमनम् / एवं सर्वत्रोदयराशेः सप्तराशे15 रस्तमनं वेदितव्यम्, अहोरात्रेति / इदानीं लोकसामान्यमतेन' गोलायाम उच्यते वहशीताद्रिसोम्नः खखखस(श)रनगा योजनानां सहस्रमिति / इह दक्षिणाग्निवलयादुत्तरमहाहिमवतः शो(सी)म्नः पञ्चसप्ततिसहस्र योजनानां गोलमानम् / एवं पूर्वापरवृत्तत इति स्फुटं पञ्चमपटले वक्तव्यमिति / मध्य चर्कार्द्धरेखागमनमपि रवेरेकरात्रं विषो च पश्चात् सव्याव(प)सव्यं चरति दिननिशि चक्षुभेदः क्रमेण / मार्गाणां खाहिचन्द्र त्यजति दिननिशं चायनान्तं हि यावत हानिर्वृद्धिः षडङ्जै(डंशै)स्त्वपि रविशशिनोः षष्टिनाड्यां निशाह्नि // 54 // मध्य(ध्ये) चक्रार्धरेखा इति मध्यराशिचक्रस्य विषुव रेखा पञ्चसप्ततिसहस्र योजनानां मध्ये सादर्धसप्तत्रिंशतसहस्रान्ते भवति, तस्यां गमनं मध्ये चक्रादर्धरेखागमनमपि रवेः। अपिशब्दात् सर्वेषां ग्रहाणा चक्राद्धमध्यरेखागमनं स्वस्वविषुवे भवत्येकरात्रं न सर्वकालमिति / पश्चात् सव्याव(प)सव्यं चरतोति पश्चाद् विषुवदिनाद् द[66a] क्षिणायने दक्षिणं चरति, उत्तरायणे उत्तरं चरति, सव्याव(प)सव्ये तुलादौ मेषादाविति / दिननिशि चक्षभेदैः क्रमेण मार्गाणां खाहिचन्द्रमिति अशीत्युत्तरशतसंख्यं मार्गाणां 1. भोटानुसारं 'dBan iDen (ईशाने)' इति / 2-3. घ. पुस्तके नास्ति / 4. क. गोलसामान्यमतेन; भो. hJig rTen sPyibi Lugs Kyis (लोकसामान्यमतेन)। 5. घ. पुस्तके सर्वत्र 'विषुवरेखा' स्थाने 'विश्ववरेखा' इति /