SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ विमलप्रभायां [लोकधातु भोक्ता चरणवशाद् भवति, तथापि युद्धमिति / एवं बृहस्पतिक्षेत्रे धनुषि मीने शुक्रो यदि भवति, तदा युद्धं शुक्रबृहस्पत्योः / एवं शुक्रक्षेत्रे वृषभे तुलायां चेति / तथा शनिक्षेत्रे मकरे कुम्भे यदि केतुर्भवति, तदा युद्धम् / एवं कर्कटेऽपि यदि शनिर्भवति, शनि क्षेत्रे तदा केतुना सह युद्धम्, केतोरुत्पन्नत्वादिति / नक्षत्रे नान्येन युद्धमिति / अत्र पुनर्नक्षत्रे ग्रहाणां जन्म नक्षत्रापेक्षयेति; न केवलं स्वक्षेत्रे राशौ युद्धं जन्मनक्षत्रेऽपि रिपोयुद्धं भवतीति, पुनर्वसौ शुक्रनक्षत्रे, मघायां मङ्गलनक्षत्रे, हस्तायां बृहस्पतिनक्षत्रे, अनुराधायां बुधनक्षत्रे, मूले शनिनक्षत्रे, उत्तराषाढायां केतुनक्षत्रे सौम्यमङ्गलयोः स्वस्वनक्षत्रे युद्धम्। एवं शुक्रबृहस्पत्योः शनिकेत्वोरिति, स्वनक्षत्रं विना अन्ये नक्षत्रे क्षेत्रे वा युद्धं न भवतीति खलु निश्चितम् / अन्यनक्षत्रे 10 समायुक्तिरन्योन्यं भवतीति / एवं चन्द्रस्यापि भृङ्गोन्नतिः; वामे चन्दप्रवेशो यदि भवति रवी निर्गमश्चोत्तरेण भवति; तदा उत्तरे शृङ्गोन्नतिः। क्वचिदयनवशाद् दक्षिणे दक्षिणायने दुर्भिक्षानावृष्टिहेतोः स्वभावत इति / पच्छेदे च राहोर्बजति सममुखः सम्मुखो ग्रास एव वामेचारेऽव(प)सव्ये रविगमनवशाद् दक्षिणे सव्यभागे / एवं राहविदिक्षु ग्रसति शशधरं निर्गतं पृष्ठतश्च अश्विन्याद्यर्द्धचित्रं निशिदिवससमा मध्यतो गोलरेखा // 52 // इदानीं राहोः प्रवेश उच्यते पर्वच्छेदे पूर्णिमायाश्छेदे, चकारादमावस्याच्छेदे च; राहोर्वजति चन्द्रः सममुखः सम्मुखो ग्रासः एव भवति / अत्र सम्मुखः पूर्वग्रासः, स एव [64b] राहोर्वलनवशात् 20 ज्ञातव्यः / सर्वकरणान्तरे प्रसिद्धत्वादत्र यत्नो न कृतो मञ्जश्रिया भगवतेति / वामे चारेश्व(प)सव्ये वामे वलने राहोरव(प)सव्ये वामे चन्द्रस्य ग्रासो भवति; रविगमनवशाद दक्षिणे सव्यभागे इति, रविभोगानिर्गतस्य चन्द्रस्य गमनवशाद् रविगमनवशादिति / दक्षिणे दक्षिणवलने दक्षिणे चन्द्रग्रासो भवति / एवं राहविविक्ष सति शशधरमिति / एवमुक्तक्रमेण वलनं वलनवशाच्छशधरं राहुर॑सति विदिक्षु; निर्गतं पृष्ठतश्च; 25 पूर्वादिवलनान्निर्गतं पश्चिमवलने पृष्ठतो ग्रसतीति मूलतन्त्रे चान्यकरणान्तरे वा राहोर्वलनादिकं ज्ञातव्यमिति / इदानीं नक्षत्रगोल उच्यते अश्विन्याद्यद्धचित्रं निशिदिवससमा मध्यतो गोलरेखा। अश्विन्यादिचित्राद्ध चित्रा दिरेवत्यन्तं मेषं तुलादिविषुवे दिनं रात्रिः समा गोलरेखा मध्यतो रवेरुदयास्तंT 279 30 गमनहेतोस्त्रिशत्रिंशद्दण्डात्मिका भवति / तदेव गोलं ऋक्षभेदेन भवति / 1. भो. Ri Bon Can (शशि) /
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy