________________ पटले] ज्योतिनिविधिमहोद्देशः इदानीं ग्रहाणामस्तमनोदयकाल उच्यतेयः कश्चित् सूर्यभोगं प्रविशति नियतं स ग्रहश्चास्तमेति सूर्य त्यक्तोदितः स्यादयनगतिविभागेन मार्गश्च तस्य / वामे मार्गे स्थितो यो रविगमनवशात् स व्रजत्युत्तरेण सव्यस्थो दक्षिणेन स्फुटमपि च रिपोर्युद्धमन्योऽन्यमत्र // 50 // / यः कश्चित् सूर्यभोगं प्रविशति नियतं स ग्रहश्चास्तमेतीति सूर्यमण्डलरश्मिभिरदृष्टत्वादस्तंगत इत्युच्यते[63b], न ग्रहस्य सर्वथाऽभाव इति / सूर्य त्यक्तोदितः स्यादिति स एवास्तंगतो ग्रहः स्वचरणवशात् सूर्यं त्यक्तः सन्नुदितो भवति, सूर्यरश्मिभिः' परित्यक्तत्वादिति / अयनगतिविभागेन मार्गश्च तस्येति / तस्योदितग्रहस्यायनगतिविभागेन; मार्गश्चायनयोविभागोऽयनविभागः; अग्निवलयात् कैलाश(स)स्योत्तरे हिमवन्तं 10 यावत्, हिमवतो दक्षिणेऽग्निवलयं यावत्, सार्द्धद्वयशीतिदिनशतविभागत इति; तेन सूर्यस्यायनगतिविभाग इति; तेन सूर्यगतिविभागेनोदितानां ग्रहाणां मार्गश्च तेषां भवतीति / वामे मार्ग स्थितो यो रविगमनवशात् स व्रजत्युत्तरेणेति / इह वाममार्गे ग्रहाणां सौम्यादीनां सौम्यानां बुधशुक्रकेतूनां वामाङ्गे सम्भूतत्वादिति सूर्यमण्डलेऽप्यस्त- 15 मनकाले वामाङ्गेन प्रवेशो वामाङ्ग नाप्युदयोऽतो वाममार्गे स्थितो यो ग्रहः स क्रूरग्रहाणामुत्तरेण व्रजति; यथा भानोः सव्यस्थो दक्षिणेनेति / इह सव्यस्थः सव्ये मार्गे यः सूर्यमण्डले अस्तंगतो मङ्गलो बृहस्पतिः शनिरिति, क्रूरो दक्षिणे सौम्यग्रहाणां व्रजति दक्षिणाङ्गे सम्भूतत्वादिति / अत्र वामाङ्ग सम्भूतत्वात् केतुः सौम्यः कायभेदेन, दक्षिणाङ्गे सम्भूतत्वाद् बृहस्पती रौद्रः कायभेदेन; तथा स्फुटमपि च रिपोयुद्धमन्योऽन्य- 20 मोति / अनयोः सौम्यक्रूरयो धमङ्गलयोबृहस्पतिशुक्रयोः शनिकेत्वोः परस्परं युद्धम्, रिपुत्वादिति / स्वक्षेत्रे संस्थितानां यदि भवति रिपुनिश्चितं तत्र युद्धं नक्षत्रे नान्येन युद्धं खलु भवति समायुक्तिरन्योन्यमत्र / वामे चन्द्रप्रवेशो यदि भवति रवी निर्गमश्चोत्तरेण वामे शृङ्गोन्नतिः स्यात् क्वचिदयनवशान्निर्गमे दक्षिणे च॥ 51 // स्वक्षेत्रे संस्थितानां यदि भवति रिपुनिश्चितं तत्र युद्धमिति / स्वक्षेत्रं मङ्गलस्य मेषराशिवृश्चिकराशि श्चेति; तस्मिन् क्षेत्रे संस्थितस्य यदि बुधभोगो भवति, तस्मि[64a]न् क्षेत्रे (तेक्को') तदा निश्चितं युद्धम् / एवं बुधक्षेत्रे मिथुने कन्यायां यदि मङ्गलो 1. क. सूर्य० / 2. क. ०स्यु (स्त्यु) / 3. घ. वामाङ्गे। 4. क. पुस्तके अयमशो प्रसङ्गः। *. घ. पुस्तके अग्रे पाठः खण्डितः। 25