________________ 93 विमलप्रभायां [लोकधातुशोधनीया जन्मचरणग्रहणार्थम् / अश्विन्यादौ नक्षत्रभोगे यदि ऋणमधिकं चक्र" मिश्रे विशोध्यमिति / इह नक्षत्रभोगे अश्विन्यादिकेऽवश्यं ऋणं शोधनीयं यद्यधिकं ऋणं ऋणराशिरधिका भोगराशि हीना तदा चक्रे मिश्रे विशोध्यं चक्रं सप्तविंशतिनक्षत्रसमूहः ; तेन मिश्रे वि[60a]शोधनीयं ऋणमित्यर्थः / त्याज्यं चक्रामिति / अत्र शोधितेऽवशेषं चक्राई यदि भवति, तदा त्याज्यम् अर्धाधिकमपि भवेत् / अत्रार्द्धाधिकं यदवशेषं तस्य त्यक्तशेषस्योत्कमो भवति (स्यात्) उत्क्रमेण मन्दकार्ये धनं सर्वग्रहाणां क्रमेण ऋणमिति / ऋक्षे षष्टया हते यक् प्रभवति घटिका घटिकापिण्डनिमित्तम् / ऋक्षे पिण्डे षष्ट्या हते सति अधःस्थं घटिकापिण्डं मूनि युग् भवति / भूतवह्नीन्दुभु(भ)क्तं राशिचरणार्थम् / घटिकाराशेः पञ्चत्रिंशदधिक10 शतेन भक्तं यल्लन्धं तद् राशिचरणं भवति / मन्दकर्मण्यपि च धनमृणं चोरक्रमेण क्रमेण यथासंख्यं वेदितव्यम् / अत्र राशिचारपदानितत्त्वान्यष्टादशाद्रिः प्रकटरसपदान्यर्द्धचक्रे ऽप्यधोवं हन्याद् भोगेन नाडीः शरगुणशशिभिर्भागलब्धोद्धचक्रात् / पूर्वाद्ध ग्राह्य इष्टो भवति पदवशात् त्याज्य एव पराद्ध भुक्तं कृत्वैकपिण्डं ग्रहगमनवशाद् देयहेयं च नाड्याम् // 42 // तत्त्वानि जन्मनः प्रथमराशौ पञ्चविंशत्, द्वितीये अष्टादश, तृतीये अद्रीति सप्त पूर्वराशित्रये / ततो परचक्रार्द्ध चतुर्थराशौ सप्त, पञ्चमे अष्टादश, षष्ठे पञ्चविंशदिति प्रकटरसपदान्यचक्रे ऽप्यधोऽमिति / हन्याद् भोगेन नाडीः घटिकाराशिः पञ्च20 त्रिंशदधिकशतभागेन लब्धो राशिभोगो भवति / तदेव षट्पदमध्ये पदम् ; ततो द्वितीयः, भुज्यत इति भोगः, तेन भोगेनावशेषेणावशेषनाडीहन्यात् / शरगुणशशिभिर्भागलब्धोऽर्धचक्रात् / नाडीभोगेनाहतराशेः पञ्चत्रिंशदधिकशतभागेन लब्धः पूर्वार्धे ग्राह्य इष्टो भवति / पदवशादिति यावद् ग्रहोऽपराद्धं न व्रजति, ततस्त्याज्य एव परार्धे / स एव भागोऽ[60b]परार्द्ध त्याज्यो भवति / भुक्तं कृत्वैकपिण्डमिति यद् राशिवशेन चरणं भुक्तं ग्रहैस्तदेकपिण्डं कृत्वा पूर्वार्द्ध स्थितम्; अपराद्धेऽभुक्तं पिण्डमेकं कृत्वा पूर्वापरं भुक्तं त्यक्त्वा ग्रहगमनवशाद् देयहेयं च नाड्यामिति / ग्रहाणां गमनम् उत्क्रमेण क्रमेण च (का० त० 1.41), तद्वशाच देयं हेयम्; उत्क्रमणवशाद् देयम्, क्रमवशाद् हेयं नाड्याम्, घटिकाराशौ ग्रह भोगेन नक्षत्रराशाविति नियमः; सर्वत्र मन्दकर्मणि मङ्गलादीनामिति राशिकर्मविधिः, 30 जन्मचरणशुद्धिरिति / 1. क. चक्र, ग. चक्र। 2. ग. घ. एकपिण्डं।