________________ पटले ज्योतिर्ज्ञानविधिमहोद्देशः मासास्त्रिशद्हताश्च प्रतिदिनसहिताः शैलखागैश्च लब्धं विस्थामध्ये विमिश्रं त्वपि जलधिरसैलब्धहीनोऽस्फुटाहः / शैलत्र्वेकैश्च मिश्रः स्फुटदिवसगणः शैलनागर्तुभक्तः शेषश्चर्धा हतं यत् पुनरपि खरसैर्गुण्यशैलादिनाड्यः // 40 // इदानीं मङ्गलादीनां नक्षत्रभोगार्थमहर्गणमुच्यते मासा इति करणमासाः। दिनराशिनिमित्तं त्रिंशदहताश्च ते दिनानि भवन्ति / ते दिना[नि] वर्तमानमासप्रतिदिनेन सहिता(नि)भवन्ति / त्रिस्था अधोराशेः / शैलखागैश्चेति सप्तोत्तरसप्तशतर्भागलन्धं मध्यराशौ विमिश्रम्, ततो मध्यराशेरपि जलधिरसैश्चतुःषष्टिभिर्भागलग्धेन होनोऽस्फुटाह इति / क्वचित् प्रतिदिनवाराधिकेन स्फुटार्थमेकवारो हीनो भवति; ततः स्फुटोऽहर्गणो भवति इति / इदानीं मङ्गल उच्यते शैलवेंकैश्च मिश्र इति करणापेक्षा न सिद्धान्तापेक्षा इति, सप्तषष्ठ्यधिकशतेन मिश्रः शैलाकैश्च मिश्र इति / स्फुटदिवसगणः शैलनागर्तुभक्त[59b] इति / स च दिवसगणो मङ्गलदिनैः सप्ताशीत्युत्तरषट्शतैर्भक्तः शैलनागर्तु भक्त इति / अतो मङ्गलस्य परिवर्तनं ज्ञात्वा शेषश्चाहतः सप्तविंशतिभिर्हतः पुनः शैलनागर्तुभिः हतं 15 नक्षत्रं भवति / खरसैः षष्ठिभिरपि गुण्यशैलादिभिः लब्धा नाड्यो मङ्गलभोगेन लब्धा भवन्ति / पाणीपलादिकं पूर्वोक्तविधिनेति / . ___ अत्र सर्वग्रहाणां पञ्चविधं भोगस्थानं भवति–राशिस्थानं नक्षत्रस्थानं घटिकास्थानं पाणीपलस्थानं श्वासस्थानम् / अधोऽधो भवन्ति-श्वासस्थानेषु उपरि श्वासा न तिष्ठन्ति; षड्भागेन लब्धाः पाणीपलेषु विशन्ति ; पाणीपलानि षष्ठयुद्धे (दर्श्वे) न 20 तिष्ठन्ति, षष्ठयाभागेन लब्धा घटिका राशौ विशन्ति / घटिकाप्येवं नक्षत्रराशौ विशन्ति; नक्षत्राणि कर्मद्वये साद्ध त्रयोदशोद्धेन तिष्ठन्ति / षड् राशयस्तिष्ठन्तीति निममः / इदानीं मङ्गलशुद्धिरुच्यतेशोध्याः सार्धा नवारे यदि ऋणमधिकं चक्रमिश्रे विशोध्यं त्याज्यं चक्रार्द्धम धिकमपि च भवेत् त्यक्तशेषोत्क्रमः स्यात् / ऋक्षे षष्टया हते युक् प्रभवति घटिकाभूतवह नीन्दुभु(भ)क्तं यल्लब्धं मन्दकर्मण्यपि च धनमृणं चोत्क्रमेण क्रमेण // 41 // शोध्याः सार्धा नवारे इति / इह मङ्गलस्य नक्षत्रादिभोगे पृथक्कृते एकस्मिन् भोगे आरे भवति' शोध्या नव नक्षत्राः। सार्द्धा इति त्रिंशद् घटिका घटिकास्थाने 1. क. शैलनागवं / 2. क. 0 स्थानेष ; ख. 0 स्थाने षडुपरि / 3. घ. भवन्ति / 4. क. 0 त्रयोदशार्द्धन। 5. क. घ. इति /