________________ विमलप्रभायां [लोकधातुकरणान्तरे लिखिष्यान्ति ; अस्माकं करणेऽपि सूर्यभोगविशुद्धिरस्तीति, अतो हेतो!त्तानीकृतं टीकापेक्षयेति / इदानी दिननिशाहानिवृद्धिरुच्यते षण्मासं हानिवृद्धी द्वे यथासंख्यं हानिर्वृद्धिश्च भवति / दिननिशायाश्च 5 दिनस्य च निशायाश्च, सूर्यप्रचारैरुत्तरचारैर्दक्षिणचारैः सूर्यस्य सूर्यप्रचारैरिति / अन्धिप्राणाग्निलिप्ताः प्रतिदिनसमये वृद्धिनाशेऽयनाङ्गरिदं मानं कैलाशस्योत्तरभागे हिमवन्तं यावत् प्रत्यहं चत्वारः श्वासास्त्रोणि पाणीपलानि वृद्धि शश्चायनाङ्गेरयनाङ्गं सार्द्ध द्वयशीत्यधिकदिनशतं तैदिनैरयनाङ्गः सव्ये रात्रेवृद्धिर्भवति / उत्तरे वासरस्येति / कैलाश(स)स्य दक्षिणे वक्ष्यमाणे वक्तव्यम् / इह माने दक्षिणायन19 संक्रान्तिदिने षट्त्रिंशद्भिर्घटिकाभिर्दिनं भवति, चतुर्विंशतिभी रात्रिर्भवतीति / एवमुत्तरायणे रात्रिदिनम.नं विलोमेन ज्ञातव्यमिति / इदानीं राहुनक्षत्रभोग उच्यते मासा नेत्रार्कमिश्रा नयनविगुणिताश्चन्द्रपर्वैकमिश्राः खर्वम्भोधिप्रभक्ता मुनिकरगुणिताः खादिभागेन चर्भम् / शिष्टाः षष्टयाहता ये पुनरपि घटिकास्तेन लिप्ता हतास्ते चक्र लब्धं न वक्त्रं भवति च तमिनः पुच्छऋक्षार्द्धमिश्रम् // 39 // मासा इति / मासाः करणमासा इति / नेत्रार्कमिश्रा इति करणापेक्षा न सिद्धान्तापेक्षा। नेत्रार्क इति / द्वाविंश यधिकशतमिश्रा इति / नयनविगुणिताः पक्षराशिनिमित्तं द्वाभ्यां गुणिता इति / चन्द्रपर्वैकमिश्राः पूर्णिमाभोगार्थं पक्षमेकं 20 मिश्रम; अमावास्याभोगार्थ पक्षद्वयमिश्रं पक्षराशौ भवति / खर्वम्भोधिप्रभक्ता इति राहोः पक्षभोगार्थम् / पक्षमण्डलेन षष्ट्युत्तरचतुःपक्षशतेन२ भागः। तेन खर्वम्भोधिना प्रभक्का ये अवशेष[59a]पक्षास्ते मूनिकरगुणिता भवन्ति / नक्षत्रभोगार्थं खादिभागेन चर्भम् / खादोति शून्यादिना षष्ट्युत्तर चतुःशतभागेन लब्धमृक्षं भवति / पुनरवशेषा शिष्टाः षष्टयाहता ये, तेनैव भागेन लब्धा 25 घटिका भवन्ति / एवं षष्ट्या हतास्तेनैव भागेन लिप्ता भवन्ति / षड्भिहतास्तेनैव भागेन श्वासा भवन्ति / चक्र लब्धो(-)न वक्त्रम् / अत्र यत् खर्ध्वम्भोधिना भाग-४ लब्धं नक्षत्रादिकं तच्चक्रे सप्तविंशतिनक्षत्रात्मके ऊनीकृते चक्र वक्त्रं भवति / वक्त्रं नक्षत्रभोगेऽश्विन्यादिना' भवति च तमिनो, राहोस्तमोऽस्यास्तीति तमी, तस्य तमिनः। पुच्छऋक्षार्द्धमिश्रमिति / ऋक्षार्द्ध सार्द्धत्रयोदशनक्षत्राणि तैमिश्रं मुखभोगे 30 पुच्छ इति पुच्छभोगो भवतीति / 1. ग. चतुर्विशतीति रात्रैर्हानिर्भवतीति; घ. चतुर्विशतिभिः रात्रवृद्धि भवति / 2. ग. शतैः न / 3. क. च / 4. क. घ. पुस्तकयोः 'भाग' इति नास्ति / 5. क. अश्विन्या। T 276