________________ पटले] ज्योविनिविधिमहोद्देशः इदानीं शीघ्रकर्मविधिरुच्यतेसूर्ये भौमो विशोध्यो गुरुरपि रविजः शीघ्रकर्मण्यथैव सौम्ये शुक्र च सूर्यः खलु भवति धनं शीघ्रकार्ये क्रमेण / शोध्यः शेषोऽत्र चारो ग्रहचरणपदैः शेषनाडीनिहत्य षष्टया भागेन लब्धं ग्रहचरणपदं ग्राह्यहार्य तथैव // 43 // सूर्ये भौमो विशोध्यो गुरुरपि रविजः शीघ्रकर्मण्यथैव / अथानन्तरमेवेति / पुना राशिकर्मविशुद्धग्रहभोगः सूर्यभोगे शोधनीयः / सूर्ये भौमो विशोध्य इति; मन्दभोगे रविकारहिते पृथग् ग्रहभोगं कृत्वा अथैवेति गुरुरपि शोध्यो रविजः शनिरवि(पि)' शोध्यो भवति, यथा मङ्गलोऽपिशब्देनेति / क्व ? शोघ्नकर्मणि। एवं सौम्ये सौम्यभोगे सर्यः सो(शो)ध्यो बुधभोगार्थं शुक्र च शुक्रभोगे च सूर्यः सो(शो)ध्यः शुक्रभोगार्थम् / 10 अत्रोच्चग्रहो नीचग्रहे(ण)२ विशोध्य इति नियमः / तेन सौम्ये शुक्रे च सूर्यः शोधनीयः / खलु भवति धनं शीघ्रकार्ये क्रमेणेति / अत्र शीघ्रकर्मणि शीघ्रकार्ये क्रमेण धनं भवति / T277 खल्विति निश्चितम् / उक्तक्रमेण ऋणं भवति, अर्धचक्रे परित्यक्ते / उच्चग्रहभोगविशुद्धावशेषनक्षत्रं दिनभोग वशेन ग्रहाणां न[61a]क्षत्रचरणं भवति। तदेव ग्रहचरणपदमनेकघटिकात्मकम् / तैप्रहचरणपदैर्घटिकाभिः शेषनाडीनिहत्य षष्टया 15 भागेन लब्धं ग्रहचरणपदात् ग्राह्यहार्य तथैवेति पूर्ववत् पूर्वार्धे ग्राह्यम्, अपरार्धे हार्यमिति / भुक्तं कृत्वैकपिण्डं ग्रहगमनवशाद् देयहेयं समस्तं भौमे चारा जिनाद्याः प्रकटमनुपदे स्थापनीयाः समस्ताः / ' एवं सनग्रहाणां क्रमपरिगणना वेदितव्या नरेन्द्र सौम्ये शुक्रे विशुद्धो भवति दिनकरः सौम्यशुक्रौ च भोगात् // 44 // 20 भुक्तं कृत्वैकपिण्डं ग्रहगमनवशाद् देयहेयं समस्तमिति / अत्र शीघ्रकर्मणि क्रमे देयम्, उत्क्रमेण हेयम् / पूर्वार्धे भुक्तं पिण्डम्, अपरार्धे अभुक्तं पिण्डं पूर्ववदिति / भौमे चारा जिनाद्या इति जिनाश्चतुर्विंशतिः; तैः चादी येषां चतुर्दशपदानां मनुपदे चतुर्दशपदे स्थितानामादौ पदे स्थिताः; भौमे तदाद्याश्चारा जिनाद्याः प्रकटमनुपदे 25 चतुर्दशनक्षत्रस्थाने समस्ताः स्थापनीया इति / एवं सर्वग्रहाणां क्रमपरिगणना वेदितव्या नरेन्द्र इति / सौम्ये सौम्यभोगे शुक्र विशुद्धः सूर्यः सोमपुत्रो बुधश्च भवति / शुक्रे विशुद्धः सन् शुक्रो भवति, सौम्यशुक्रौ च भोगादिति मङ्गलविशुद्धिः / 1. ख. शशिरपि / 2, भोटानुसारम् / 3. ख. अवशेष /