________________ पटले ज्योतिर्ज्ञानविधिमहोद्देशः इदानी मेषादिसंक्रान्तौ क्षेपणे क्षेपका(द) द्वादशवर्षध्रुवक' उच्यतेमेषादौ वारनाड्यां क्रमपरिरचिताः क्षेपणे द्वादशैते चन्द्राद्रीभूतवेदो गुणशरशशिनः शैलचन्द्रं तृतीये / वेदाग्नीभूतचन्द्रौ नयनकरयुगे वेदनेत्राणि षष्ठे षड वारे चन्द्रबाणे गिरियुगशिखि षट् चन्द्रवेदाद्रिलोकाः // 37 // / मेषादौ वारनाड्यामिति / वारस्थाने घटिकास्थाने' वारनाड्याम् / क्रमपरिरचिताः क्षेपणे द्वादशैते चन्द्राद्रीभूत इति / चन्द्र इति वारस्थाने एकः. अद्रि(द्री)भूत इति सप्तपञ्चाशत् घटिकास्थाने / अत्र वारस्थाने वर्षध्रुवकेण सार्धं यो वारो भवति, तेन वारेण मेष संक्रान्तिर्भवति; घटिकास्थाने या घटिकास्ताभिर्घटिकाभिरिति करणन्यायः / वेदाविति द्विवचनं छा(छ)न्दोवशादिति / वेदं (दाः) चत्वारि / वारस्थाने गुणशर इति 10 त्रिपञ्चाशद् घटिकास्थाने वृषसंक्रान्तौ शशिन इति वारस्थाने एकः / शैलश(च)न्द्रमिति सप्तदशघटिकास्थाने / तृतीय इति मिथुनसंक्रान्तौ; वेद इति वारस्थाने चत्वारः / अग्निभूत इति त्रिपञ्चाशद् घटिकास्थाने कर्कटसंक्रान्तौ / चन्द्र इति वारे एकः / नयनकर इनि द्वाविंशद् घटिकास्थाने सिंहे' (सिंहसंक्रान्तौ)। युग इति वारस्थाने चत्वारि | वेदनेत्राणोति चतुर्विंशतिः घटिकास्थाने / षष्ठे इति कन्यासंक्रान्तौ / षड्- 15 वारे चन्द्रबाण इति एकपञ्चाशद् घटिकास्थाने तुलासंक्रान्तौ / चन्द्र इति वार एकः। गिरियुग इति सप्तचत्वारिंशद् घटिकास्थाने वृश्चिकसंक्रान्तौ। शिखीति वारस्थाने त्रयः / षट् चन्द्र इति षोडश घटिकास्थाने धनुःसंक्रान्तौ / वेद इति वारस्थाने चत्वारः / अद्रिलोका इति सप्तत्रिंशत् घटिकास्थाने मकरसंक्रान्तौ / षड वेदौ शून्यशून्यं नयनशरपदं मीनराशौ रवेश्च षण्मासं हानिवृद्धिर्भवति दिननिशायाश्च सूर्यप्रचारैः / . .अब्धिप्राणाग्निलिप्ताः प्रतिदिनसमये वृद्धिनाशेऽयनाङ्गैः सव्ये रात्रेश्च वृद्धिर्भवति दिननिशावुत्तरे वासरस्य // 38 // षट् वारस्थाने / वेदशून्यमिति चतस्रो घटिकास्थाने कुम्भसंक्रान्तौ / शून्यमिति वारस्थाने न किञ्चिद् देयम् / नयनशर इति द्वापञ्चाशत् घटिकास्थाने"। पदं 2 25 [57b]* मोनराशौ रवेश्च देयं भवतीति संक्रान्तिभोगः करणे ज्ञातव्यः / सिद्धान्तेऽसौ संक्रान्तिभोगो न भवति; ___'वेदैस्तिथ्याहतं यत स्फुटमपि तु धनं तत् त्रिभागेन मिश्रम्' (का० त० 1.33) इत्यनेन मासमध्ये घटिकाभावः / प्रपञ्चेनापि 'त्रिस्थामध्ये हतेशा' (का० त० 1.29) 1. ख. ध्रुवके / 2. ग. पुस्तके नास्ति / 3. क. पुस्तके नास्ति / 4. ग. विशति / 5. ग. सिंहसंक्रान्तिः / 6. ग. वारस्थाने / 7-8. ग. घटिकास्थाने षोडश / 9. मूले 'वेदौ' इति छन्दोदृष्ट्या / 10-11. ग. घटिकास्थाने द्वापञ्चाशत् / 12. ग. पुस्तके नास्ति / 13. ग. भोगेन / * [57a] इति रिक्तपत्रम् /