________________ विमलप्रभायां [ लोकधातुइति / अनेनापि नष्टोन्नयनेन सूर्यभोगः स्फुटो भवति / प्रत्यहं सूर्यमण्डलदिनभोगेन' विना भोगः शुद्धो भवति वर्षमेकं यावत् / पुनरपरवर्षेपरसंक्रान्तिध्र वकं [भवति, तेन प्रतिवर्षमात्रं सूर्यभोगः शुद्धः२],३ चैत्रमासात् पुनश्चैत्रमासं यावत् / ततोऽपरवर्षमपेक्ष्य करणस्य तेन किञ्चिन्मासमेकं ध्रुवकं शुद्धम् / ततोऽशुद्धो दिनभोगः सूर्यस्य, प्रत्यहं 5 विश्वासचतुःपाणी(णि)पलान्तरेण उत्तरायणादुत्तरायणं यावत् पञ्च दिनानि भोगव शादूनी भवन्ति / प्रतिमासे पञ्चविंशति घटिका ऊनी भवन्ति / करणसंक्रान्तिकालात् करणसंक्रान्तिकालं प्रतिमासे पञ्चविंशतिघटिकाधिको वर्षावधेः पञ्चवाराधिक इति / अत्रोनाधिक (-) कथं ज्ञायते ? उत्तरायणमासादौ दशदिवसं यावत् परीक्षा कर्तव्या संकुच्छायया / यस्माद् दिनादारभ्य संकुच्छाया निवर्तते उत्तरतः, तत् संक्रान्ति10 दिनं सूर्यस्य तेन वारेण तया तिथ्या तेन योगेन तेन करणेनेति / तस्मिन् दिने सूर्यभोगो नक्षत्रस्थाने विंशतिः, घटिकास्थाने पञ्चदश इति मूलध्रुवकम् / तस्मिन् ध्रुवके प्रत्यहं सूर्यमण्डलदिनैर्लब्धं प्रक्षिप्य ततो रविपदानि शोधयेत् पूर्वोक्तविधिना; यत्रार्कस्य मण्डलदिनानि घटिकापाणीपलानि श्वासराशिचक्रप्रभोगान्ता उक्ता मूलतन्त्रे; तद्यथा "खर्ध्वग्न्याहतमेकाब्दं द्विस्थं द्विगुणितं त्वधः।। पञ्चषष्ट्या हतं५ लब्धं मूर्ध्नि राशौ धनं क्षिपेत् / / शेषं षष्ट्या हतं भूयो भागलब्धं ततोऽप्यधः / पुनः षष्ट्या हतं शेषं भागलब्धं ततोऽप्यधः // . पुनः षड्भिर्हतं शेषं पञ्चषष्ट्या विभञ्जितम् / लब्धं तस्याप्यधः स्थाप्यं श्वासपिण्डं नराधिप / दिनानि घटिका लिप्ताः श्वासान् कृत्वा त्रिधा पुनः / अधो गिरिख[58a]शैलाप्तं मध्यराशौ धनं क्षिपेत् / / चतुःषट्या ततो लब्धं मूनि राशौ ऋणं हरेत् / . अवशेषदिनान्यत्र घटी पाणी पलानि च // श्वासाश्च मण्डलं भानोश्चक्रभोगाद् भवत्यमी / दिनैकं हतमक्षेर्यन्नाडीभिः षष्टिभिस्ततः / सूर्यमण्डलभोगेन पञ्चषष्ट्याधिकशतत्रयेण" / / इति / . "सूर्यमण्डलभोगेन लब्धा नाड्यो दिनं प्रति / भूयः षष्ट्याहता लिप्ताः श्वासः षडभिर्हतो भवेत् // भोगोऽयं सूर्यनक्षत्रनाडिकादिषु योजयेत् / अयनादौ प्रत्यहं देयो यावद् भूयोऽयनं भवेत् // 1. क. दिने भोगेन / 2. ग. शुद्ध। 3. कोष्ठाङ्कितांशोऽधिकः प्रतिभाति / 4. ग. शुद्धो / 5. क. हृतं / 6. क, भागेन /