________________ विमलप्रभायां [लोकधातुढ पूर्वाषाढा, भे भो जा जि (जी) उत्तराषाढा, जु' जे जो खा श्रवणा, खि खु खे खो . अभिजित् 2*, ग (गा) गि (गी) गु (गू) गे धनिष्ठा, गो सा सि (सी) सु (सू) शतभृ(भि)षा, से सो दा दी पूर्वभाद्रपदा, दु (दू) थ झ ञ उत्तरभाद्रपदा", दे दो चा ची रेवती, चु (चू) चे चो ला अश्विनी, लि (ली) लू ले लो भरणी इति द्वादश राशिनामभेदाक्षराणि / एभिरक्षरैः सत्त्वानां राशिख़तव्या, तेन शुभाशुभफलं ज्ञातव्यमिति तीथिकानामभिप्रायो युक्तिशून्य इति / परमार्थतः शु[56b]भाशुभं स्वकर्मवशाद् भवति; तथा चाह "वारस्तिथिश्च नक्षत्रं योगः करणमेव च। लग्नं क्रूरग्रहैश्चैतत् कल्याणं पुण्यकारिणाम् / / एकक्षणप्रसूतानां जातकानां पृथक् पृथक् / फलं नैकफलं तेषां स्वस्वकर्मोपभोगतः // संग्रामे वनदाहे च कैवर्ताज्जालबन्धने / मरणं योगपद्येन बहवो यान्ति देहिनः // पुण्येनायुर्बलं वीर्य ऋद्धि(:) सौभाग्यरूपता। पापेनायुःक्षयो वीर्य-ऋद्धिहानिश्च देहिनाम् / / " 15 इति पञ्चाङ्गकरणोद्देशः। इदानी करणे वर्षसंक्रान्तिध्र वकमुच्यते शुद्धाब्दा नागमिश्रा इति / शुद्धाब्दाः करणवर्षाः; नागमिश्रा अष्टभिमिश्राः। खखजलधिहता इति चतुभिः शतैर्गुणिता भवन्ति / शोधिता नागमिधैरिति अष्टमिश्रितैः करणवर्षेः शोधिता ऊनीकृताः। शैलेन्द्वग्निप्रभक्ता इति सप्तदशाधिकशतत्रयेण भक्ता 20 वारा भवन्ति / गगनरसहता इति पुनर्भागावशिष्टा घटिका) षष्ठ्या हता (नाडिका) अद्रयादिना' भक्ता भवन्ति / द्वित्रिंशद् वारनाड्यो ध्रवकमिह युतम् / इदं मङ्गलादिध्रुवकमाद्रित्यादिकरणार्थ वारस्थाने द्वौ देयौ घटिकास्थाने त्रिंशदिति, षष्ठिभागेन लब्धो वारो भवति; अवशेषा वारघटिका; सप्तभागोऽवशेषो वारस्थाने वारोऽब्दस्य संक्रान्ति(:) मासे भवतीति न्यायः / 1-2. साम्प्रतिकप्रचलितज्योतिषानुसारं 'जू जे जो खा अभिजित्, खी खू खे खो श्रवण' इति / अत्र अभिजित्-सम्बन्धे विचारः-उत्तरषाढानक्षत्रस्य अन्तिमाः पञ्चदश घटिकाः तथा श्रवणनक्षत्रस्य प्रारम्भिकचतुर्घटिकाः, एवं एकोनविंशतिर्घटिका अभिजित्नक्षत्रप्रमाणमिति / अस्य अभिजित्-नक्षत्रस्य नकुलयोनिः, मनुष्यगणः, अन्ययुञ्जा, अन्त्यनाडी इति / इदं तु धन-मकर-राश्योरन्तर्गतमिति / 3. घ. भद्रपदा / 4. घ. स / 5. घ. पुस्तके बहुशः 'भाद्रपदा' स्थाने भद्रमात्रम् / 6. घ. वारतिथिश्च / 7. अत्रतः घ. पुस्तकं खण्डितम् / 8. क. ख. अड्यादिना / 9 ग. भागाः / भोटानुसारं 'भक्ता घटिका' इति पाठः समीचीनः; अत्र कोष्ठाङ्कितं नाडिकापदं घटिका इत्येव सुवचम् / 10. ग. मङ्गलादिध्रुवकादि० / 11. ग. पुस्तके नास्ति / *. ग, घ. अभिचि।