________________ 15 विमलप्रभायां [लोकधातुपिण्डे भागेऽब्धिचन्द्रः समविषमगते देयहेयाश्च वारा इति / अत्रापि चतुर्दशभागावशेषे दृष्टे समगते वाराः पञ्चादयो देयाः, विषमगते हेया [54a] इति / चतुर्दशभागावशेषे एके दष्टे पञ्च घटिका ग्राह्या; द्वितीये द्वितीयस्थानस्थैः सह दश; तृतीये तृतीयस्थानस्थैः सह पञ्चा(च) दश ; चतुर्थे चतुर्थस्थानस्थैश्चतुभिः सह एकोऽनविंशतिः; पञ्चमे पञ्चमस्थानस्थैस्त्रिभिः सह द्वाविंशत्; षष्ठे षष्ठस्थानस्थाभ्यां द्वाभ्यां सह चतुर्विंशतिः; सप्तमे सप्तमस्थानस्थेनैकेन सह पञ्चविंशतिः। ततश्चन्द्रचरणवृद्धिनिवर्तते / अष्टमे दृष्टे सति अष्टपदानि पूर्वसप्तपदैः सहितानि / त्यक्त्वा पराणि षट्पदान्यभुक्तान्येकपिण्डं कृत्वा चतुर्विंशतिघटिका देया हेया वा भवन्ति / नवमे पञ्चपदानां द्वाविंशद् घटिका; दशमे चतुष्पदानामेकोनविंशतिः; एकादशे त्रिपदानां पञ्च'; द्वादशे द्विपदानां 10 दश; त्रयोदशे एकपदस्य पञ्च; चतुर्दशमे (शे) शून्यमिति सिद्धान्तनिश्चयः। . सच्चारेणावशेषं हतमृतुरविणा भागलब्धं च तद्वत् तत्रैवार्कप्रभेदै रविपदघटिका देयहेया भवन्ति / वेदैस्तिथ्याहतं यत् स्फुटमपि तु धनं तत् त्रिभागेन मिश्रम् ऋत्वृक्षं सत्रिपादं त्वृणमपि तु रवेः शोधयेद् भुक्तिमध्ये // 33 // ___ सच्चारेणावशेषं हतमृतुरविणा भागलब्धं च तद्वदिति / अत्र सञ्चार इति पिण्डाध(:)स्थितानां पिण्डावयवानाम् , ऋतुरविणा भागलब्धावशेषाणामिति / सच्चारपिण्डे चतुर्भागावशेषं चारपदं यत् तदुपरि सच्चारपदं पिण्डावयवानां शतपदं भवति / तत्र ग्रहः प्रविष्टः / तस्मात् तद् ग्राह्यं देयहेयार्थम् / तेन पदेनावशेष(1) पिण्डावयवं() हतं (1), ततः षट्विंशत्यधिकशतेन भागलब्धं च तद्वद् देयम् / सर्वं यथा पूर्वचरण20 घटिकापिण्डं तद्वदिति / तत्रैव चाकंप्रभेदैः पूर्ववद् रविका देया हेया वा भवन्तीति सिद्धान्तः। इदानीं प्रतिदिनसूर्यभोग उच्यते वेदैस्तिथ्याहतं यत् स्फुटमपि तु धनं तत् त्रि[54b] भागेन मिश्रमिति / वेदैश्चतुर्भिस्तिथि(भि)श्चाहतं गुणितं वेदस्थ्यिाहतं स्फुटं धनं भवति / सूर्यस्य घटिकास्थाने 25 तस्या गुणितं तिथ्यास्त्रिभागेन मिश्रं धनं घटिकास्थाने देयमिति / ऋत्वृक्षं सत्रिपादं त्वृणमपि तु रवेः शोधयेद् भुक्तिमध्ये इति / इह रविकापदविशुद्धयर्थं सूर्यस्य जन्मराशिः शोघनीयः, येन सूर्यस्य प्रत्यहं वारघटीपाणी(णि)पलादिभोगो ज्ञायते, अन्यथा करणे शद्धिर्नास्ति प्रत्यहं सर्यस्येति / अतोऽश्विन्यादिनक्षत्रभोगात षटनक्षत्रं सत्रिपादमिति पञ्चचत्वारिंशद् घटिका इति मेषादिराशिवयं शोधितं भवति / कर्कटे जन्मराशिर्भवति, 30 सूर्यस्य चरणशुद्धित इति / अत ऋत्वृक्षं सत्रिपादं त्वृणमपि तु रवेः शोधयेद् 1. ख. पञ्चदश। 2. क. चतुर्दश; भो. Cha Sas i (चतुर्भाग)। 3. ङ. गुरुः /