________________ 10 पटले ] ज्योतिर्ज्ञानविधिमहोद्देशः पुनर्देया इति वारस्थाने देयाः प्रतिदिनवारार्थम्; घटिकास्थाने हेयाश्चन्द्रकलाया एकघटीहानितः, पुनर्देयाः पिण्डस्थाने चन्द्रपदानां धनऋणभोगपरिशुद्धित इति / पिण्डे भागेऽब्धिचन्द्रः समविषमगते देयहेयौ पदार्थाविति / पिण्डस्थाने पिण्डादब्धिचन्द्रेण' चतुर्दशभागेन समगतेन पदार्थो धनं भवति; विषमगतेन ऋणं पदार्थो भवति / अत्र समभागे द्वाभ्यां गतश्चभिर्वागत इति न गतोऽपि सम इति / विषमभागे एकेन गतः त्रिभि-5 गित इति / तदुपरि नास्ति भागः / सप्तपञ्चाशदूर्ध्वं त्रिंशत्तिथिसहिताः सप्ता(प्त)विंशतिपिण्डका न भवन्ति / अतश्चतुर्दशभागेश्चत्वारो विभक्ता भवन्तीति तेन समविषमभागेन पदार्था देया हेया वा वेदितव्याः। पदार्थो नाम चन्द्रचा(वा)रपदानि चतुर्दशस्थानेध ऊर्चे सप्तसप्तपदव्यावृत्त्या अनुलोमविलोमाभ्यां पृथिव्यादिगुणभेदभिन्नानि / ते च पदार्था देया हेया भवन्ति / शून्ये शून्यं विशुद्धमिति / चतुर्दशभागावशेषं यदि शून्यं तदा पदार्थोऽपि शून्यः, न देयो न हेय इति न्यायः करणा(णे)। त्रिदशशशिपदे पञ्चेति / त्रयोदशमे(शे) पदे अवशेषे दुष्टे एकपदे वा पञ्चघटिका धनं वा ऋणं वा भवति / एवं नेत्रार्कयोदि(53b)गिति द्विपदे अधिकेऽवशेषे द्वादशे वा दशघटिका देया भवन्ति, चन्द्रकलावृद्धिहानिवशादिति / तिथ्याख्य इति पञ्चदश; एकादशे अग्नाविति तृतीये भवन्ति / दशपवजलधीति 15 चतुर्थे पदे भागावशेषे दृष्ट विंशतिश्चैकहोना भवन्ति / द्वाविंशत(ति)पञ्चरन्ध्र ऋतुवसुनि जिनाः सप्तमे पञ्चविंशत् (तिः) तस्मिन्नर्कप्रभेदैः प्रकटितरविका देयहेया भवन्ति / भूताभूतेषु वेदाः शिखिकरशशिनः पूर्वभागेऽपरे च पिण्डे भागेऽब्धिचन्द्रः समविषमगते देयहेयाश्च वाराः // 32 // 20 1273 . द्वाविंशत्(ति)पञ्चमे रन्ध्र इति नवमे भवन्ति / ऋतुरिति षट्(ड्)वसुनीत्यष्टमे पदे जिनांश्चतुर्विंशतिर्भवन्ति / सप्तमे पदे भागावशेषे दृष्टे पञ्चविंशत् घटिका समे देया विषमे हेया भवन्ति / तस्मिन्नर्कप्रभेदैः पकटितरविका देयहेया भवन्ति / तस्मिन् तिथिभोगेऽर्कप्रभेदेन सूर्यपदानि भवन्ति; सूर्यस्य ऋणं तस्मिन् ऋणम्, सूर्यस्य धनं तस्मिन्नेव धनमिति सूर्यप्रमेदः। 25 अत्र चन्द्रपदानि भूताभूतेषु वेदाः शिखिकरशशिनः पूर्वभागेऽपरे चेति / भूता इति पञ्च, पुनभूतेति ततः अधः पञ्च, इषुरिति ततोऽधः पञ्च, वेदा इति ततोऽधश्चत्वारि, शिखीति ततोऽधः त्रयः; कर इति ततोऽधो द्वे, शशिन इति ततोऽध एकपदम् / एवं सप्तस्थानेषु पदानि / ततोऽपरसप्तस्थानेषु विलोमेन एकादिना चतुर्दशस्थाने पञ्च पदानि यावत् / एवं चन्द्रपदानां न्यासो भवति चतुर्दशस्थानेष्विति / 1. ऊ. पिण्डादर्धवक्वेन्द्रेण / 2. ङ. पुस्तके नास्ति / 3. भो. Cig La Sogs Pa (एकादिना); क. एकोदिना; ङ. एकदिनात् / 30