________________ 78 विमलप्रभायां [लोकधातुसिद्धान्तमपहृत्य तन्त्रकरणादिकं कुर्मः', इत्यालोच्य सिद्धान्तानि(न्ताः) गुप्तकृतानि(कृताः), तन्त्रकरणादिकं प्रकटितम् / तन्त्रेऽनेकाहर्गणराशिः, करणेऽपि मन्दशीघ्रं कर्मचतुष्टयं(इति) प्रपञ्च (:) कृतम् (कृतः), येन बालजनाविषमं दृष्ट्वा दूरं पलायन्ति, ज्योतिष(ष) नाम न कर्वन्ति / एवं कालवशात करणे ध्रवकंन स्फटम, अस्फटत्वात सर्यभोगोऽशद्धः, सर्य5 भोगाशुद्धि[51a]तः सर्वग्रहभोगोऽशुद्धोऽभूदिति / इह परेषामज्ञानहेतोर्यत् करणादिकं रचितं दुष्टतोथिकैस्तदेव कालवशात् तेषामपरिज्ञानं जातं परापकारत इति / अतः परापकारः सर्वत्र विरुद्ध इति / इह ग्रहाणां प्रतिदिनभोगक्षेपका वक्ष्यमाणे वक्तव्या इति / इदानीं लघुकरणं तावदुच्यते वह्नौ खेऽब्धौ विमिश्रं प्रभवमुखगतं म्लेच्छवर्ष प्रसिद्धम् 10 ऊनं म्लेच्छेन्द्रवर्ष करफणिशशिना शेषमहितं च / मिश्रं चैत्रादिमासेरधरयुगहतं खाग्निचन्द्रविभक्तं लब्धं मूनि प्रविष्ट भवति नरपते मासपिण्ड विशुद्धम् // 27 // वह नौ खेऽब्धौ विमिश्रमिति / इह ध्रुवकोऽनित्यस्तन्त्रराजे षष्टिसंवत्सरान्ते पुनधुंवकरणादिति / इह तथागतकालात् षड्वर्षशतैमञ्जुश्रीकालः करणे ध्रुवः। तस्मा15 दष्टशतवर्षेः म्लेच्छकालः; तस्मात् म्लेच्छकालात् द्वयशोत्यधिकशतेन होनो अजकल्को कालो येनाजेन लघुकरणं विशोधितम् / स एव कालः करणे ध्रुवकं भवति म्लेच्छवर्षादिति / प्रभवमुखगतमिति / प्रभवो मुखमादिर्येषां षष्टिसंवत्सराणां ते प्रभवमुखाः, तेषु प्रत्येकवर्तमानवर्षस्य पूर्ववर्ष प्रभवमुखगतमिति / तन्मित्रं श्यधिकचतुःशतवर्ष राशी म्लेच्छवर्ष प्रसिद्धं भवति / एकवर्षमादिं कृत्वा यावत् षष्टिवर्ष तावद् विमिश्रं प्रभवमुखगतं 20 भवति इति / तदेव वर्ष सर्वकरणान्तरे प्रसिद्धं भवतीत्यादित्यादिवारवत् / तेन विमिश्रितं यधिकचतुःशतवर्षराशाविति / म्लेच्छवर्ष प्रसिद्धं म्लेच्छो मधुमती रह्मणा(रहमाना)वतारो म्लेच्छधर्मदेशको म्लेच्छानां तायि(जि)नां (ताजिकानां) गुरुः स्वामी / ऊनं म्लेच्छेन्द्रवर्ष करफ[51b]णिशशिना द्वय शीत्यधिकशतेनोनम्, करफणिशशिनोनमिति, सम्भलविषये अजकल्कीकालवर्षम्, तदेव लघुकरणे वर्षपिण्डमिति / 25 शेषमहितं च / तदेव वर्षपिण्ड द्वयशीत्यधिकशतेनोनावशेषं मासपिण्डनिमित्तमर्काहतं द्वादशगुणितं मासपिण्डं भवति / मिथं चैत्रादिमासैरिति / तदेव मासपिण्डं चैत्रादिवर्तमानमासैमिश्रं भवति वर्त्तमानमासार्थमिति / अधरयुगहतमिति / तदेव मासपिण्डमध उपरि राशौ अधो सशौ मासपिण्डं कृत्वा अधिकमासग्रहणार्थं युगहतं चतुर्गुणितं भवति। खाग्निचन्द्रविभक्तमिति। 30 अत्र सर्यस्य द्वात्रिंशतसाद्धमासैरधिकमासोऽमावस्यां(स्यायां) संक्रमणाभावात् / तेन भोगो न स्यात्, तस्मात् राशि[३]चतुर्गुणिता भागराशिर्भवति / भागराशेश्चतुर्गुणिते सति T272 'निमित्ताभावे नैमित्तकस्याभाव' इति न्यायात् विभज्य राशिश्चतुर्गुणी भवति / तस्माद् 1. क. कुर्म्यः / 2. क. ध्रुवचरगादिति / 3. ङ. येनाजिन / 4. इ. रक्षणावतारो /