________________ पटले ] ज्योतिर्ज्ञानविधिमहोद्देशः विभज्य राशेर्भागराशिना लब्धं फलं भवति / लब्धं मूनि प्रविष्टम् / तदेव लब्धमधिकमासपिण्डं मूनि मासपिण्डराशौ प्रविष्टं भवति नरपते मासपिण्डं विशुद्धं वर्तमानमासे त्रिंशतिथिगणितार्थमिति / इदानीं मासध्रुवकमुच्यतेमासास्त्रिस्थानभूता(:) करशिखिगुणिता मध्यराशौ स्थिता ये मूले षड्भागलब्धं भवति च तदृणं मध्यमे शोधनीयम् / ऊोऽधो नेत्रत्रिंशत् प्रकटयति धनं मिश्रितं षष्टि भागेलब्धं मूनि प्रविष्टं भवति मुनिवरैश्छेदितः शेषवारः // 28 // मासास्त्रिस्थानभूताः करशिखिगुणिता मध्यराशौ स्थिता य इति / अत्र शुद्धमासास्त्रिस्थाने कृत्वा मध्यराशौ ये मासाः स्थिताः ते प्रतिमासवा ते प्रतिमासवारघटिकाथ करशिखि- 10 गुणिता द्वात्रिंशद्गुणिता भवन्ति / मूले षड्भागलब्धमिति / मूलराशौ षड्भागेन लब्धं मध्यमे राशौ ऋणं भवति मध्यरा[52a]शौ, अतः शोधनीयम्, ऋणत्वात् / ऊोऽधो' नेत्रत्रिंशत् प्रकटयति धनं मिश्रितम् / इदं ध्रुवकं मङ्गलादिकम् अस्तमनकरणमागतम्, अत आदित्याद्युदयकरणार्थं मूनि राशी वारद्वयं धनं भवति; अधो राशौ त्रिंशत्घटिका धनं भवति / अतो मिश्रमूधिो यथासंख्यं नेत्रञ्च त्रिंशच्च नेत्रत्रिशदिति, षष्टिभाग- 15 लब्धम्, मूलघटिकाराशौ षष्टिभागेन लब्धं वारपिण्डं भवति / अवशेषं घटिकापिण्ड वारभोगे भवति, मूनि प्रविष्टम् / तदेव षष्ट्या भागेन लब्धं वारपिण्डं मूनि प्रविष्टं वारराशौ भवति / मुनिवरैः सप्तभिः छेदितो विभक्तः सन्, शेषो वार एव स इति मासध्रुवके वारो मूर्ध्नि स्थातव्यः, वाराधो घटिकापिण्डमिति / द्विस्थानेऽन्दुमिश्रं हृतमृतुरविणा भूतमिश्रं समस्तं देयं तन्मनि राशौ प्रथमकरहते पिण्डमष्टद्विभक्तम् / त्रिस्थामध्ये हतेशास्त्वधरनवगुणैर्भागलब्धं द्विमिश्रम् ऊनं मध्ये घटोभिर्हतमपि तु धनं मूनि राशौ द्विहत्वा // 29 // इदानीं वारपदान्युच्यन्ते द्विस्थानेऽन्दुमिश्रमिति / तदेव मासपिण्डमर्केन्दुमिश्रं द्वादशोत्तरशतमिश्रम् / 25 अर्केन्दुरिति करणापेक्षा(क्षया) न सिद्धान्तापेक्षयेति द्विस्थाने भवति / हृतमृतुरविणा। अधोमासपिण्डं हृतं षड्विंशत्यधिकशतेन लब्धं मूनि राशी धनं भवति / प्रतिमासं पिण्डद्वयार्थ मूनि राशौ देयं भवति / प्रथमकरहते पश्चाद् देयं भवति / भूतमिदं समस्तमिति / करणापेक्षा(क्षया) ऋतुरविणा भागलब्धं(7) सिद्धान्तम्(ः) / यतः षड्विंशत्यधिकमासशतेन एकपिण्डं पिण्डस्थानेऽधिकं भवति, चन्द्रचरणवशादिति / पिण्डमष्टद्विभ- 30 1. भो. sTera Hog (ऊोऽधो); क. ऊर्दोरधो / 2. ङ. वारभागे /