________________ पटले ] ज्योतिनिविधिमहोद्देशः 77 (9) ज्योतिनिविधिमहोद्देशः इदानीं सम्भलविषये मञ्जुश्रिय उत्पादनं म्लेच्छधर्मोत्पादात् ज्योतिषसिद्धान्तविनाशः लघुकरणप्रवृत्तिः तथागतव्याकरणमाद्यान्दादित्यादिना वितनोमीति आद्याब्दात् षट्शताब्दैः प्रकट (टे) यशनृपः सम्भलाख्ये भविष्यत् तस्मान्नागैः शताब्दैः खलु मखविषये म्लेच्छधर्मप्रवृत्तिः / तस्मिन् काले धरण्यां स्फुटलघुकरणं मानवर्वेदितव्यं सिद्धान्तानां विनाशः सकलभुवितले कालयोगेऽभविष्यत् // 26 // आद्याब्दात् षट्शताब्दैः प्रकट(टे) यशनपः सम्भलाख्ये भविष्यदिति / आद्येति धर्मदेशनावर्ष तथागतस्य; तस्माद् वर्षात् ' षट्शताब्दैः शीतानद्युत्तरे सम्भलनाम्नि विषये; यश इत्यागमपाठः; महायशा मञ्जुश्रीः प्रकटो भविष्यति, निर्माणकायग्रहणं करिष्यतीत्यर्थः। 10 तस्मानागैः शताब्दैरिति / तस्मात् यशसो निर्वृतात् | नागैरित्यष्टवर्षशतैः / खल्विति निश्चितम्, मखविषये म्लेच्छधर्मप्रवृत्तिर्भविष्यति / शोतादक्षिणे मखविषये कोटिग्रामविभूषिते म्लेच्छानां तायि(जिका)नामसुरधर्मप्रवृत्तिर्भविष्यति / तस्मिन् म्लेच्छाले धरण्यां स्फुट(ट) लघुकरणं मानवैर्वेदितव्यम् / सिद्धान्तानां विनाश इति / सिद्धान्त(न्तो) ब्रह्म सौरं यम(व)नकं रोमकमिति, एषां चतुर्णां विनाशं 15 सिद्धान्तानां विनाशः / सकलभुवितल इति / सकल इति यत्र तीथिकसिद्धान्ता वर्तन्ते'; तत्र सकलं भुवितलं शीतादक्षिणम्, तस्मिन् भुवितले; न सम्भलादिविषयेषु बौद्धसिद्धान्तस्य विनाश इति / कालयोगे भविष्यदिति। काल: म्लेच्छधर्मः, तेन सिद्धान्तानां योगः कालयोगः, तस्मात् कालयोगाद् भविष्यति'; कालयोग इति पञ्चम्यर्थे सप्तमी। अतः सिद्धान्तविनाशाल्लघुकरणं स्फूटमिति मातमोदकवचनम्, तीथिकानां परमार्थतो 20 न स्फुटं लघुकरणादिकम् / कुतः ? सिद्धान्तानां विनाश इति कटाक्षवचनात् / यदि करणादिकं स्फुटम्, तदा सिद्धान्तानां विनाशाभावः करणेऽपि ग्रहसिद्धितः / न च" करणान्तरे सूर्यशुद्धिर्दृश्यते उत्तरायणदिने छायया परीक्षमाणया। उत्तरायणे छायाशुद्ध्या विना सूर्यभोगोऽशुद्धः, सूर्यभोगादशुद्धाच्चन्द्रभोगोऽशुद्धः। एवं मङ्गलादयोऽपि सूर्ये शोधिताः सन्तः सूर्यभोगाशुद्धत्वात् तेषामपि भोगोऽशुद्ध एव / ग्रहभोगाशुद्धत्वाज्जातका- 2 दीनां ग्रहफलं निरर्थकं तीथिकानामिति / इह सिद्धान्ते ग्रहाणां शुद्धक्षेपकाः स्त्रीबालसाध्यास्तैर्ग्रहाः क्षिप्रं प्रज्ञायन्ते बालजनादिभिः, तेन ईर्ष्या कलौ जाता दुष्टतीथिकानाम्; यदि सर्वे स्त्रीबालादयो ग्रहसंचारं ज्ञास्यन्ति, तदाऽस्माकं को गौरवं करिष्यति ? तस्मात् 1. क. वर्षात्र / 2-3. अत्र भोटानुवादे चत्वारः सिद्धान्ताः 'ब्रह्मदेववादिनः, सूर्यदेववादिनः, अचेलकाः (शैवाः), राहुदेववादिनः' इति लिखितम्-gCer Bu Pa Dan sGra Can | 4. क. निवर्तन्ते, भो. वर्तते (Sugs Pa) / 5. क. भविष्यतः भो, hByun Bar hGur Ro (भविष्यति)। 6-7. क. नव / 8. क. एवं /