________________ विमलप्रभायों [ लोकधातुधिकचत्वारिसहस्राणि लग्नानि, घटिका षट्शताधिकैकविंशत्सहस्रसं[49b]ख्याः, पाणी(णि)पलानि षण्णवतिसहस्राधिकद्वादशलक्षाणीति / एतान्येवं व्रजन्ति प्रत्येकदिने तनुजादीनामेतानि वर्षाङ्गानि श्वासभेदेन व्रजन्ति / तत्रैकपक्षो नवशतैः श्वासैवजन्ति(ति)। चतुर्विंशतिपक्षैदिनं वर्षं व्रजति / अष्टादशशत5 श्वासैर्मासो द्वादशमासैदिनं वर्ष व्रजति / षट्त्रिंशद्भिः श्वासशतैः ऋतुः, षट्ऋतुभिर्दिनं वर्ष व्रजति / चतुःपञ्चाशत्श्वासशतैर्युगं व्रजति / चतुर्युगैदिनं वर्ष व्रजति / द्वासप्ततिश्वासशतैरेककालो व्रजति / त्रिकालैदिनं वर्षं व्रजति / अष्टशताधिकदशसहस्रः श्वासै. रयनं व्रजति / अयनाभ्यां दिनं वर्षं व्रजति / एवं षोडशशताधिकविंशतिसहस्रश्वासैः स्वस्वमानैः प्रत्येकदिनं वर्ष व्रजति तनुजादीनामिति / एवं षष्टिश्वासैरहोरात्रं व्रजति / 10 षष्टयुत्तरत्रिशताहोरात्रैदिनं वर्ष व्रजति / पञ्चश्वासैर्लग्नं व्रजति / विंशत्यधिकत्रिचत्वा रिंशत्लग्नशतैदिनं वर्ष व्रजति / एकश्वासो घटिकां व्रजति / एकश्वासस्य षष्टि संख्या पाणी(णि)पलं व्रजति / श्वासस्य षष्टयुत्तरत्रिशतांशः श्वासो व्रजति / २[श्वासस्य षोडशशताधिकैकविंशत्सहस्रांशः श्वासो व्रजति]। एकविंशत्सहस्रषट्शताधिक घटिकाभिर्दिनं वर्ष भवति / षण्णवतिसहस्राधिकद्वादशलक्षपाणी(णि)पलैदिनं वर्ष 15 व्रजति / षट्सप्ततिसहस्राधिकसप्तसप्ततिलक्षश्वासैदिनं वर्ष व्रजति / एवं षट्सप्ततिलक्षाधिकसप्तसप्ततिकोटिश्वासैदिनशतं (वर्षशतं ) व्रजति / ___ असौ कर्मवशात् परमायुरूनमधिको ( - ) भवति / स्वस्वमानैर्योगिनां योगबलेन तपस्विनां समाधिबलेनाधिको भवति / एकश्वासो घटिकां व्रजति / पापसत्त्वानां पापबलेन हीनो भवति / अस्य परमागमयुक्त्या नियमो नास्ति; किन्तु वेदेषूक्तम्20 "शतायुर्वैपुरुषः शतेन्द्रियः" (ऐ० ब्रा० 2 / 17 / 4 / 19) इति / अत्र प्रपञ्चवचनमिदम् मनुष्याणां वर्षशतं परमायुरिति, कृद्युगे नराणामायुर्वृद्धिवशादिति / अत्र नीतार्थेन प्रतिदिनं प्रतिवर्ष पुरुषशब्देनोच्यते; दिनशतेन वर्षशतेनाध्यात्मनि बाह्य / पुनरेवान्यश्वासचक्रवर्त्तनतः "शतायुर्वै पुरुषः शतेन्द्रियः" इति / एवं द्विशतदिनैश्चतुर्युगा[50a)नि व्रजन्त्याध्यात्मनि; विंशत्सहस्राधिकत्रिचत्वारिंशल्लक्षैः श्वासैर्बाह्ये वर्षेरिति / एवमुभयचक्रपरिवर्तनेनोभयपुरुषयोरायुर्मासद्वयमेक ऋतुरिति वामदक्षिणे दशमण्डलानि / प्राणप्रवाहो मण्डलमेकं द्वात्रिंशत्सहस्राधिकचतुर्वर्षलक्षः। एवं पञ्चमण्डलैः सर्वग्रहाः स्वस्वजन्मस्थाने शून्ये विशति(न्ति) / ततः पुनरेवान्यचरणप्रवृत्त्या अपरपुरुषो मध्यमाया विनिर्गत इति वक्ष्यमाणे वक्तव्यमिति / श्रीपरमादिबुद्धोद्धृतश्रीकालचक्रतन्त्रराजे द्वादशसाहस्रिके विमलप्रभाटीकायां लोकधातुमानसंग्रहोद्देशोऽष्टमः // 8 // T271 1. क. षट् / 2-3. ख. ङ पुस्तकयोः कोष्ठकेऽयमधिकः अंशो लिखितः। अयमंशो भो. पुस्तकेऽपि नास्ति / 4. अत्र भो. पुस्तके 'Lo brGyar (वर्षशतं)' इति अधिकः पाठः / 5-6. ऐतरेयब्राह्मणे एवमागतम्-"शतायुर्वे पुरुषः शतवीर्यः ...." / .