________________ पटले ] लोकधातुमानसंग्रहोद्देशः इदानीं मनुष्यतनुजादीनां स्वस्वश्वासमानमुच्यते सूक्ष्मोच्छ्वासघ्रनाडीदिनयुगसहस्रकैकविंशच्छतैश्च षभिर्मानं क्रमेण त्वणुतनुजनृणां भूतदेवासुराणाम् / शक्तेभ दिनैकं वहति भुवितले शक्तिमानं युगानां खण्डे खण्डे च चक्री व्रजति शिवपदं द्वादशार्का दिनके // 24 // 5 सूक्ष्मोच्छ्वासेत्यादि / सूक्ष्म इति मनुष्यश्वासनिःश्वासस्य एकस्य षट्शताधिकएकविंशतसहस्रभतस्य एकांशः सूक्ष्मश्वासः, तेन श्वासषट्केन तनुजादीना काम दीनामेकं पाणी(णि)पलम्, षष्टिभिः पाणिपलैः घटीघटीभिः षष्टिभिदिनमिति / दिनं नाम तनुजादीनां षट्शताधिक-एकविंशत्सहस्रश्वासनिःश्वाससंख्या, तैरुच्छ्वासैर्गतैर्नराणां स्वदिनं भूतप्रेतानां ध्रुभिः स्वदिनं ध्रुरिति / मनुष्यश्वासस्य त्रिंशद्गुणः श्वासः कृष्ण- 10 पक्षो दिवा, शुक्लपक्षो रात्रिः; प्रेतानां पितॄणां स्वदिनमिति / नाडीभिर्मनुष्याणां षष्टयुत्तरत्रिशतश्वासो देवानामेकश्वासः / दिर्नामति मनुष्याणां षट्शताधिक-एकविंशत्सहस्रश्वासाः, असुराणामेकश्वासः। ध्रुरिति मनुष्याणां वर्षः। शक्तेरेकश्वासः शक्तिरित्यकनिष्ठजातिः। युग इति मनुष्याणां षट्शताधिक-एकविंशत्सहस्रवर्षपिण्डितं भर्तुरेकश्वासः। भर्तुरिति नैवसंज्ञायतनोपगजातेरिति / सूक्ष्मोच्छ्वासध्रुनाडोदिन[5]युगसहस्रक-[49a] विशच्छतेश्च षड्भिर्मानं क्रमेण त्वणुतनुजनृणां भूतदेवासुराणां शक्तेर्भर्तुदिकम् / एवं पूर्वोक्तक्रमेण एषां तनुजादीनां स्वकीयस्वकीयश्वासैः षट्शताधिक-एकविंशत्सहस्रदिनं भवति / ___एषु मानेषु शक्तिमानमकनिष्ठदेवमानं वहति भुवितले चक्रिणो युगानां शक्तिमानमिति / खण्डे खण्डे च चक्री व्रजति शिवपदम् / प्रत्येकखण्डे बुद्धधर्मं प्रवत्तयित्वा 20 व्रजति महासुखपदं महासुखस्थानमिति / द्वादशार्का दिनैके / एवं प्रत्येकैकखण्डे प्रत्येकैकचक्रवर्ती धर्मप्रवर्तकः / एकदिने द्वादश चक्रवत्तिनो भवन्ति ; अष्टादशाष्टादशशतैः शक्तिश्वासैः मनुष्याणां वर्षेरेकैको व्रजति / एवं द्वादशार्का धर्मदिवाकराः पुण्यज्ञानमार्गप्रवर्तका इति / बाह्ये वर्षेण द्वादशराशिभेदेन द्वादशार्का व्रजन्तीति / इदानी सूक्ष्मादोनां श्वासभेदेन प्रत्येकदिने कालभेद उच्यतेपक्षा मासाः समस्ता ऋतुयुगसमया अग्निकालोऽयने द्वे वर्ष राजन् समस्तं त्वनुदिनघटिकालग्नपाणीपलानि / एतान्येवं व्रजन्ति त्वनुतनुजनृणां भूमिदेवासुराणां शक्तेभर्तुदिनैके त्रिभुवननिलये देहमध्ये तथैव // 25 / / पक्षा इत्यादि / इह प्रत्येकदिने तनुजादीनां चतुर्विंशतिः पक्षाः। मासाः समस्ता 30 इति द्वादश मासाः / ऋतवः षट् / युगसमयाश्चत्वारः। अग्निकाल इति त्रयः कालाः। अयनौ (ने) द्वौ (द्वे) वर्ष राजन समस्तमिति एतत सर्व वर्षभेदेन ज्ञातव्यम् / तथा अनुदिनं षष्टयुत्तरत्रिशतदिनं घटिकालग्नपाणी(णि)पलानि; विंशत्युत्तरत्रिशता