________________ 74 लोकधातु 70 विमलप्रभायां विष्णुः / एते शक्रादयः समस्ताः परिजनसहिताः स्वस्वदिग्रक्षपाला इति / तेषां मध्ये कालचक्रो जिनानां जनकोऽनाहतो वनकायो दिक्पालानां प्रभुरित्यर्थः / [48a] इदानीं महाचक्रवत्तिभ्रमणं द्वादशभूमिखण्डेषूच्यते मेरोः' पृष्ठेष्वित्यादि मेरोः पृष्ठेषु दिक्षु भ्रमति भुवितले दुर्जयो दानवानां यस्मिन् धर्मो विनष्टो वहति कलियुगं तत्र तत्र प्रयाति / हत्वा म्लेच्छांश्च युद्धे विचरति पुरतः स्थापयित्वा स्वधर्मे कृत्त्रेताद्वापरं वै कलियुगमपरं वर्तते कालयोगात् // 22 // मेरोः पृष्ठेषु विक्षु भ्रमति भुवितले दुर्जयो दानवानां म्लेच्छानां यस्मिन् 10 भूखण्डे तथागतधर्मो विनष्टस्तेषां विपर्यासधर्मो वर्तते, तस्मिन् भूमितले भ्रमतिं चक्री कलियुगे स एवाधर्मप्रवृत्तिः, कलियुगं वहतीत्यर्थः / तदेवाधर्मात्मकं कलियुगम् / यत्र यत्र म्लेच्छधर्म वहति खण्डे, तत्र तत्रैव खण्डं प्रकर्षेण याति प्रयातीति / हत्वा' म्लेच्छांश्चकाराद् दानवादींश्च युद्ध विचरति पुरतः स्थापयित्वा स्वधर्मे; तान् म्लेच्छादीन् कृत्त्रेताद्वापरं वै कलियुगमपरं वर्तते कालयोगात् / अत्र युगं कृदयुगादिकमपरं महाकृयुगादिकं न भवतीत्यर्थः / एतद् युगं कालयोगाद् वर्तते / कालो द्वादशराशिचक्रम् , तस्य योगात् कालयोगाद् वर्तते चतुःसन्ध्याभेदेनेति / यस्मिन् खण्डे स चक्री प्रविशति बलवान् कृयुगं तत्र याति त्रेता पृष्ठे च राज्ञः कलिरपि पुरतो द्वापरञ्च द्विमध्ये / विंशत्येकं सहस्रं रसशतसहितं वर्षमानं युगानाम् एकैकस्य प्रमाणं युगशरगुणितं मानवाब्दे शतं यत् // 23 // यस्मिन् खण्डे स चक्री प्रविशति बलवान् कृदयुगं तत्र याति; कृयुगं नाम सम्यक्सम्बुद्धधर्म यातीत्यर्थः / त्रेता पृष्ठे च राज्ञस्त्रेता पृष्ठे राज्ञो भवति, धर्मस्यैकपादाभावः कृदन्ते त्रेतान्ते द्विपादाभावः; कलिरपि पुरतो राज्ञो धर्मस्य चतुःपादाभावः कल्पान्ते / द्वापरं च द्विमध्ये इति / कलित्रेतयोर्मध्ये द्वापरं धर्मस्य त्रिपादाभाव इति / विशत्येकं सहस्र रसशतसहितम् / रस इति षट्पट्शताधिकैकविंशत्सहस्रं वर्षमान युगानां चतुर्णां मानं तद् भवति / एकैकस्य प्रमाणं [48b] युगशरगुणितमिति / युग इति चत्वारः, शर इति पञ्च, तैः चतुःपञ्चाशद्भिर्गुणितं युगशरगुणितमिति / मानवाब्दे शतं यदिति / वर्षशतं गुणितं चतुःशताधिकं सहस्रपञ्चकं भवति, प्रत्येकयुगमानं तुल्यमिति / 1-2. ख. पुस्तके नास्ति / 3. क. पस्तके 'तत्र' इति अधिकः / 4. ख. हविनीत /