________________ पटले ] लोकधातुमानसंग्रहोद्देशः भवति। चन्द्रचन्द्रेकहीनमिति स्थूलमानं संक्षेपत उक्तम्। अत्र मेरोर्मध्ये ब्रह्मस्थानादधोभागे सर्वदिक्ष योजनाष्टसहस्रं चक्रवाडस्यैकं भवति, नवसहस्रयोजनानां बाह्ये षोडशसहस्रयोजनानां यावत् षट्वीपादयः स्थिताः। अतोऽष्टादशभागलब्धं षोडशसहस्रेभ्यो मानं स्फुटं भवतीति / तद्बाह्य पञ्चविंशत् (ति)सहस्र जम्बूद्वीपं विशालं वलयाकारं मेरोरष्टदिक्षु; तद्बाह्ये लवणजलनिधेरद्धलक्षं प्रमाणं भवति सर्वदिक्षु / तद्वदग्निवलयस्य वायुवलयस्य त्रिभुवनधरणस्यान्तिमस्य प्रमाणमिति / एवं मेरोर्ब्रह्मस्थानात् सर्वदिक्षु द्वि-द्विलक्षं योजनमानं भवति; शरीरे उरोरद्धं पृथ्वीवलयम्; बाहुरुदकवलयमुपबाहुरग्निवलयं मणिबन्धात् करान्तं वायुवलयम् / एवं लोकधातुमानमिति / इदानीं कालचक्रदेवनागपीठोपपीठादीनां' स्थानमुच्यते ब्रह्माण्डे कालचक्रमित्यादिना 10 ब्रह्माण्डे कालचक्र जिनवरसहितं संस्तुतं देववृन्दैमेरौ गीर्वाणचक्र त्ववनितलगतं पञ्चवर्णं ह्यहीनाम् / श्रीमेरोः सर्वदिक्षु क्षितिवलयगतं सर्वपीठोपपीठं क्षेत्र छन्दोहमेलापकचितिभुवनं वह्निवाय्वन्तसीम्नः // 20 // ब्रह्माण्डे बाह्ये शरीरे, उष्णीषमणौ कालचक्रः तमेव संस्तुतं जिनवरसहितं 15 सर्वबुद्धः सहितं समाजमेकलोलीभूतं देववृन्दैर्बोधिसत्त्वैब्रह्मादिभिः संस्तुतमिति / मेरौ गीर्वाणचक्रं ब्रह्मादीनामिति / अवनितलगतं पञ्चवर्ण [47b] ह्यहीनां चक्रमिति / श्रीमेरोः सर्वविक्षु क्षितिवलयगतं सर्वपोठोपपोठमिति / पोठं चतुर्दिक्षु वाय्वग्न्युदकपृथ्वीस्वभावेनावस्थितं पूर्वविदेहम्, लघुजम्बूद्वीपम्, उत्तरकुरुः, अपरगोदानीयमिति / उपपीठं तत्स्वभावेन चतुर्दिक्षु, आग्नेयनैऋत्यईशानवायव्यदिक्षु / एवं क्षेत्रोपक्षेत्रं समु- 20 द्राद्धि(ढे)। छन्दोहोपछन्दोहं समुद्रस्यापरा? / मेलापकोपमेलापकमग्निवलया? / वेश्मोपवेश्ममग्नेरपरार्द्ध / श्मशानोपश्मशानं वायुवलया। अष्टौ महाश्मशानानि वायुवलयान्ते / एवं पीठादयो द्वादशभूमयो वेदितव्या इति / शरीरे च द्वादशभूमयो हस्तपादयोदिशसन्धय इति / इदानीं दिक्पालस्थानमुच्यतेपूर्व शक्रोऽग्निरग्नौ यमदनुवरुणा याम्यदैत्यापरेषु वायुर्यक्षो हरश्चानिलधनदहरेषूर्व भागे त्वधश्च / ब्रह्मा विष्णुः समस्ताः परिजनसहिताः स्वस्वदिग्रक्षपाला स्तन्मध्ये कालचक्रो जिनवरजनकोऽनाहतो वज्रकायः // 21 // . पूर्वे शक्र इति पूर्वे शको मेरो नि, पूर्वे दिशि शक्रः / अग्नावग्निः / यमो 30 याम्ये, दनुर्दैत्ये, वरुणोऽपरे, वायुरनिले, यक्षो धनदे, हरो हरे, ऊर्श्वभागे ब्रह्मा, अधो 1. क.०पीठानां / 2. क. ख. ङ. चतुर्विदिक्षु / 25