________________ विमलप्रभायां [लोकधातुआगमे उक्ताः। व्यञ्जनान्येककः ष' इति / व्यञ्जनानि ककारादीनि समस्तानि प्रत्याहारेण संगृहीतानि / एकवर्णः कः षो भवति, कषोः संयोगः क्षकार इति / स च एकादशमः कामभव इति / एकत्रिंशद्भवैश्च त्रिभव इह भवेद धातुभेदास्त्रिधातु- . . रेतद् वज्रत्रयं स्यात् त्रिभुवनसकलं चादि-कादिप्रभेदात् / रत्नाभाच्छर्कराम्भो निगदितनरको वालुकाम्भो द्वितीयः पङ्काम्भस्तीव्रधूमो हविरपि च तमो रौरवः सप्तमश्च / / 15 / / एकत्रिंशदभवैश्च त्रिभव इह भवेदिति / एभिरकारादिभिरेकत्रिंशद्भवैस्त्रिभवः, कामभवो रूपभवोऽरूपभवो[भव] 'मि(इ)ति / अत्रेकत्रिंशद् भवा इति अरूपादयः 10 नैवसंज्ञानासंज्ञायतनोपगाः, आकिञ्चन्यायतनोपगाः, विज्ञानानन्त्यायतनोपगाः, आका शानन्त्यायतनोपगाः इत्यरूपाश्चत्वारः। अकनिष्ठादयः षोडश रूपाः-अकनिष्ठाः, सुदर्शनाः, अतपाः, अबृहाः, बृहत्फलाः, पुण्यप्रसवाः, अनभ्राः,शुभकृत्स्नाः , अप्रमाणशुभाः, परीत्तशुभाः, आभास्वराः, अप्रमाणाभाः, परीत्ताभाः, महाब्रह्माणः, ब्रह्मपुरोहिताः, ब्रह्म कायिका इति षोडश रूपाः / परनिर्मितवशवादयः एकादश कामा इति / अत्र पर15 निर्मितवशवर्तिनः-निर्माणरतयः, तुषिताः, यामाः, त्रायस्त्रिशाः, चातुर्महाराजकायिका इतिषट् कामावचरा देवाः अधमकल्पाः षट्पञ्चचतुस्तिद्वयेककल्पायुष्मन्त इति / अत्रासुरास्तदन्तत्तिनः मनुष्याः तिर्यञ्चः प्रेता नारका इति पञ्च कामभवाः। एवमेकत्रिंशद् भवाः / ए[45b]षामकारादयः स्वराः संज्ञामन्त्राः यथासंख्यमरूपादीनामुक्रक्रमेणेति; 50 तद्यथा-अ आ अं अः इत्यरूपाकाशकृत्स्नाः , इ ई ए ऐ इति वायुकृत्स्नाः , ऋ ऋ अर् आर् (इत्य)ग्निकृत्स्नाः , उ ऊ ओ औ इत्युदककृत्स्नाः , ल ल अल् आल् इति पृथिवीकृत्स्नाः , इति शीलबलेन षोडश रूपाः। वाय्वादिकृत्स्नं समाधिबलेन अकनिष्ठादिका बभूवुः / ह हा य या र रा इति षट् कामावचराः दानबलेन मन्त्रजापबलेन बभूवुः / व वा असुरा मनुष्या दानबलेन, मनुष्या शुभाशुभकर्मबलेन बभूवुः; ल ला तिर्यञ्चप्रेताः तिर्यञ्चाधमपापेन ,प्रेता मध्यमपापेन, क्षकारेण नारका उत्तमपापेन बभूवुः। प्रथमनागलोके पुण्यबलेन, प्रथमनरके पापबलेन अधमकल्पायुषः, द्वितीयतृतीयनरके मध्यमकल्पायुषः, चतुर्थपञ्चमनरके उत्कृष्टकल्पायुषः, षष्ठसप्तनरकेषु महाकल्पायुष इति; अष्टमे नरके लोकधातूपसंहारायुषः। इत्येवमेकत्रिंशद्भवैस्त्रिभव इत्यर्थः / धातुभेदा स्त्रिधातुरिति / एतद् वज्रत्रयं स्यात् कायवाञ्चित्तमिति / त्रिभुवनसकलं स्वर्गमर्त्यपातालम्, आदि-कादिप्रभेदादिति ज्ञातव्यम् / 1. क. ख. ङ. भो. पुस्तकेषु अत्र अग्रे च दन्त्यसकार एव लिखितः; किन्तु यतो हि मूर्धन्यषकारसंयोगेनेव क्षकारो भवति, अतः दन्त्यस्थाने मूर्धन्यो गृहीतः / 2. ख. पुस्तके नास्ति / 3. क. ख. पुस्तकयोरागतः / 4. क. ०वशेन / 5. ख. ०धम-अपायेन / 6. क. भवा /