________________ पटले]. . लोकधातुमानसंग्रहोद्देशः अधमकल्पमानं योजनमेकमायामव्यायामेन गन्तुम् ; तच्च बालाप्रैः सूक्ष्मैः परिपूर्ण वर्षशतेन एकैकबालाग्रमुद्धार्यमाणं यदा रिक्तं भवति, तदा अधमकल्पैकदिनम्, तेन त्रिंशद्दिनेन मासः, द्वादशमासैर्वर्षम्, वर्षशतेन कल्प इत्युच्यते / एवं तस्य वर्गोऽधमकल्पश - गुणनं मध्यमकल्पः, मध्यमकल्पवर्गेण उत्कृष्टकल्प इति / एवं नरकादिदुःखं सत्त्वानां कल्पा(न)नेकसंख्यं पापवशाद् भवति; पुण्यवशात् स्वर्गादिकं सौख्यं कल्पा(न)नेकं भवति 5 देवानामिति / इदानीं नागभवनादीनां संज्ञोच्यते / तत्र नास्ति नाम्नि विवाद(:) तीथिकादिभि(ः) इति / रत्नाभात् शर्करा'म्भो निगदितनरक इति / इह रत्नैर्यस्मिन्नावासे आभाः, स आवासो रत्नाभः; तस्मादसुरनाग[46a]लोकात् पञ्चविंशत्सहस्रादधो T269 योजनमानम्; तस्मात् रत्नाभात् शर्कराम्भो निगदितो नरकः कथित इत्यर्थः / बालुकाम्भो 10 नाम द्वितीयः पङ्काम्भस्तृतीय इति शीतनरकद्वयम्; ततस्तोवधूम्रनरकश्चतुर्थो हविरपि पञ्चम इति उष्णनरकद्वयम्; ततोऽधस्तमः षष्ठः रौरवो महातमः सप्तमः खर-वातनरकद्वयं वज्रार्चिःसहितम् / चकारादष्टमो वज्रसूच्यग्रभूमागः सदा प्रज्वलित इति अष्टौ महानरकाः पाताले। क्षारो मद्याम्बुदुग्धा दधिघृतमधुराः सागराः सप्त शैला(जलाश्च) 15 नीलाभो मन्दराद्रिनिषध मणिकरो द्रोणसीताद्रिवज्राः / द्वीपं चन्द्रं सिताभं वरपरमकुशं किन्नरं भोगभूमी क्रौञ्चं रौद्रं च जम्बूनिवसति मनुजः सप्तमं कर्मभूमौ // 16 // क्षारो मद्याम्बुद्धा दधिघतमधुराः सागरा सप्त इति / क्षारो भूमिवलयबाह्ये, मद्यादयो भूम्यपरि, शैलाः सप्त-नीलाभो मन्दराद्रिनिषधमणिकरो द्रोण- 20 शीताद्रिवज्राः। वज्रः क्षारोदधिबाह्ये हिमवदादयो मद्यादेः प्रत्येकसमुद्रस्य प्रत्येक कुलपर्वता बाह्य उदकालिबन्धवत् / द्वीपं चन्द्रं सिताभं वरपरमकुशं किन्नरं भोगभूमौ / क्रौञ्चं रौद्रं च जम्बूनिवसति मनुजः सप्तमं कर्मभूमौ / सप्तमं महाजम्बूद्वीपं वलयाकारं लक्षयोजनायामं त्रिलक्षं वत्तेन यस्मिन्निवसति मनुजस्तत कर्मभमौ वेदितव्यम, षट्भोग भूम्यामिति / जम्बूद्वीपं क्षारोदधितटात्, शेषाणि मद्यादितटेभ्य इति / [46b] इदानीं महाजम्बूद्वीपे चतुर्तीपाण्युच्यन्तेपूर्व वाय्वर्द्धवृत्तं भवति नरपते दक्षिणेऽग्निस्त्रिकोणं पूर्णेन्दुश्चोत्तरेऽम्ब्वोर्वरकनकमहेः पश्चिमे चाकि(ब्धि)कोणम् / शून्याकारः सुमेरुर्वरकुलिशमयो मध्यतो . मण्डलानां शैला नागा ग्रहा दिग् भवति भुवितलं योजनानां सहस्रम् // 17 // 30 1. क. ख. सर्करा० / 2. क. ख. ग. ट. भो. पुस्तकेषु अत्र 'निषच' इति पाठः; किन्तु कोशानुसारं 'निषध' इति पाठः समीचीनः / 3. ङ. °भाग / 25