________________ विमलप्रभायां [लोकधातु 15 ___ अखं चतुर्लक्षाणाम् / चत्वार्य द्विलक्षमिति। मेरोर्मध्यात् सव्याव(प)सव्ये क्षारसमुद्रवलयान्तम् / द्विलक्षं सव्येनैकलक्षं अव(प)सव्येनैकलक्षम् / एवं पूर्वापरं वायव्याग्नेयम्; त्रैऋत्येशानम् / शिखिचलवलयं योजनानां द्विलक्षमिति / तस्मात् क्षारोदकवलयात् सव्याव(प)सव्ये शिखिवायुवलयं द्विलक्षं भवति, सव्येनैकलक्षम्, अव(प)सव्येनैकलक्षम्, उत्तरेण लक्षमेकमेवं सर्वदिक्षु / मध्ये मेरुयंदूर्ध्व भ्रमति दिननिशं राशिचक्रं सतारमिति / मध्ये मेरुः, किंभूतः / स यस्योर्ध्वं राशिचक्रं द्वादशारं अनन्तताराशशिसहितं सतारं दिवानिशं भ्रमतीति; अत्र केयं वाचो युक्तिः, किमपरोऽपि मेरुरस्ति, येनेदं वाक्यमित्युच्यते? अत्र मन्दारो'ऽपि मेरुसंज्ञया गृहीतः, तेन मन्दारपृथक्करणाय इयं वाचो युक्तिरिति / षड्भागे द्विद्विलक्षमिति / इहोतक्रमेण अधसि(अध) ऊर्ध्वं पूर्वपश्चिमे दक्षिणोत्तरे षड्भागे पृथिवीवलयमध्यात् द्विद्विलक्षं त्रिभुवनसकलं स्वर्गमयंपातालभुवनं त्रिभुवनं सकलं कालयोगात् प्रजातम्, संवतॊत्पत्तिकालवशात्; सन्धारणमन्थानसंस्थान- .. वायुकालसंयोगाज्जातं सत्त्वानां शुभाशुभकर्मफलोपभोगार्थमिति / इदानीं वृत्तमानमिहोच्यते--- तिर्यगमानस्य वृत्तं त्रिगुणमपि भवेल्लोकधातोः समन्ताद भूमेर्वृत्तं त्रिलक्षं / जलशिखिमरुतां षड्नवार्कक्रमेण / यद बाह्य लक्षमेकं त्रिभुवननिलये योजनानां नरेन्द्र तद्देहे हस्तमेकं क्षितितलनिलये स्वस्वमानेन सम्यक् // 12 // तिर्यगमानस्य वृत्तं त्रिगुणमपि भवेल्लोकधातोः समन्तादिति / इह लोकधातोः 20 सर्वत्र तिर्यग्मानस्य वृत्तमानं त्रिगुणं भवति स[44a]र्वेषां मेर्वादिवायुवलयान्तानां द्वीप शैलसमुद्रादीनामिति / भूमेवृत्तं त्रिलक्षं भूमेभूमिवलयस्य तिर्यग्मानमेकलक्षं वृत्तमानं त्रिलक्षं भवति / एवं जलशिखिमरुतामिति / जलशिखिमरुतवलयानां स्वस्ववलयान्तात् स्वस्ववलयान्तं यावत् द्विलक्षं त्रिलक्षं तिर्यग्मानम् / वृत्तमानं षड्नवार्कक्रमेणेति / षड्लक्षमुदकवलयस्य नवलक्षं अग्निवलयस्य अर्कद्वादशलक्षं वायुवलयस्य क्रमेण वेदितव्य25 मिति / यद् बाह्ये लक्षमेकं त्रिभुवननिलये योजनानां नरेन्द्र / तद्देहे हस्तमेकं क्षिति तलनिलये स्वस्वमानेन सम्यगिति / यद् बाह्य लोकधातौ लक्षमेकं योजनानां तत् स्वशरीरे स्वहस्तेन चैकहस्तमानं भवतीति पूर्वोक्तक्रमेणेति / इदानीं परमाण्वादिना योजनमुच्यते सूक्ष्मैरित्यादिनासूक्ष्मैरष्टाभिरेको ह्यणुरिदमणुभिः सूक्ष्मबालाग्रमेभी राजी-यूका-यवैश्चाङ्गुल-मुरग-यवैरङ्गुलेरर्कयुग्मैः / हस्तो हस्तैश्चतुभिर्द्धनुरिह धनुषा स्यात् सहस्रद्वयेन क्रोशः क्रोशैश्चतुर्भिदिवि भुवि गगने योजनं तेन मानम् // 13 // १.क. ख. मन्दिरो; भो०. Mandras 1268