________________ 67 पटले ] लोकघातुमानसंग्रहोद्देशः इह वाय्वन्तान्मेरुसीम्नः पृथ्वीतोयतेजोमण्डलानाम् / अधो वायुमण्डलमाकाशधाताववस्थितम् / तस्माद् वाय्वन्तान्मेरु यावत् सप्त नरकाणि, अष्टमं फणिपुरमिति / नरकफणिपुरं योजनानां द्विलक्षं भवति / अत्र वायुमण्डलं पञ्चाशत्सहस्रं भवति / तस्मिन् महाखरवाते महान्धकारे नरकद्वयं पञ्चविंशत् पञ्चविंशत् सहस्रयोजनविभागमध ऊर्ध्वं तिर्यग्मानेन पृथिवीवलयप्रमाणम् / एवमग्निवलये नरकद्वयम् ; अग्निनरकमेकम्, तदुपरि 5 तीव्रधूम्रनरकम् / तथोदकवलये नरकद्वयम ; पङ्काम्भः पङ्कोदकसंयुक्तं वालुकाभ्भो' वालुकोदकसंयुक्तं महाशीतम् / पृथ्वीवलये शर्कराम्भो नरकः पञ्चविंशत्सहस्रयोजनम् / तदुपरि फणिपुरं पञ्चविंशतिसहस्रयोजनमध ऊर्ध(ध्व)म् / तदेव मानं द्विधा-अर्द्ध असुरभुवनम्, अर्द्ध नागभुवनमिति / एवं शरीरे पादतलात् कटिं यावत् हस्तद्वयम् / तदेव हस्तद्वयं अष्टविभागं कृत्वा एकैकभागे यथाक्रमेण नरकफणिपुराणि वेदितव्यानीति। 10 मेरोर्लक्षं प्रमाणम् / तस्माद् भूमण्डलात् मेरोरध ऊर्ध्वमानं लक्षयोजनमिति / शरीरं हस्तमेकं कट्याः कण्ठाधो यावत् , तत्रैव ग्रहगणं(णो) भ्रमति / तस्माद् ग्रहगणनिलयात् पञ्च[43a[विंशत्सहस्रम / ग्रीवा मेरोः / शरीरे षडङ्गुलम् / ततः पञ्चाशदास्य मुख मेरोः ग्रोवाया ललाटान्तं यावत् शरीरे द्वादशाङ्गुलमिति / तस्माद् ध्रुवपदमचलमुष्णीषं पञ्चविंशत्सहस्रमिति / शरीरेषडङ्गलमानं ललाटाच्छिखा- 15 स्थानं यावदिति / तद् बाह्य शून्यमेकं त्रिभु वनरहितं निर्गुणं तत्त्वहीनं तदिति / अधो वातमण्डलोोष्णीषयोर्बाह्य शून्यमेकं प्रत्येकपरमाणुरूपं धातुरूपारूपादिकं शून्यमिति / नाकाशं सर्वव्यापकमित्येकशून्येनावगन्तव्यम् / एवं चतुर्लक्षलोकधातोर्मानम् / शरीरे चतुर्हस्तम् / हस्तोऽपि चतुर्विशत्यङ्गुलात्मक इति / इदानी तिर्यग्मानमिहोच्यतेवाय्वन्वाद्वायुसीम्नः स्थिरधरणितले द्वीपशैलाः समुद्राश्चत्वार्यद्धं द्विलक्षं शिखिचलवलयं योजनानां द्विलक्षम / मध्ये मेरोर्यदूज़ भ्रमति दिननिशं राशिचक्र सतारं षड्भागे द्विद्विलक्षं त्रिमुवनसकलं कालयोगात् प्रजातम् // 11 // वाय्वन्ताद् वायुसीम्न : चत्वारि लक्षाणि वायोर्वाय्वन्तं पूर्वादपरवायुवलयान्तं 25 यावत् / एवं दक्षिणादुत्तरान्तं यावदिति / स्थिरधरणितले द्वीपशैलाः समुद्रा इति / ततो वायुमण्डलाभ्यन्तरे वह्निमण्डलं वलयाकारम्; एवं अग्निवलयमध्ये तोयवलयम्, तोयवलयमध्ये पृथ्वीवलयम्, तदेव स्थिरं धरणितलम्, तस्मिन् षड् द्वीपाः षट् शैलाः, षट् समुद्राः। सप्तमेनोदकवलयेन सहिताः सप्त समुद्राः, सप्तमेन जम्बूद्वीपेन सहिताः सप्त द्वीपाः, वज्रपर्वतेन सार्द्ध सप्त पर्वताः / वज्रपर्वतो वाडवाग्निः / क्षारसमुद्रः तोयवलयान्ते 30 अधस्त तिर्यविभागेन स्थितः पृथ्वी महाजम्बूद्वीपान्ते सर्वदिक्षु अधसि(श्च)[43b] क्षारसमुद्रोऽवस्थितः / लवणसमुद्रान्ताल्लवणसमुद्रम् / 1. ख. वायु०। 2. क. ख. अधसि / 3. ख. समुद्रान्तं /