________________ पटले ] लोकधातुसंग्रहोद्देशः ससिति प्रथमान्तपाठात् / यकारादीनि ककारादिवर्गमध्ये न भवन्ति, संप्रसारणेन स्वरमित्वात्। तस्मात् त्रिशद व्यञ्जनात्मकाः कादयः षड़ वर्गाः क-च-ट-प-त-साः आकाशवायुतेजउदकपृथिवीज्ञानधातुस्वभावाः, कण्ठतालुमूर्धीष्ठदन्तोच्चारणवशादिति / षष्ठः प्रत्येकोच्चारणेन पञ्चधात्वात्मकः / [39a] तान् वर्गान् काद्यान् समात्रान् / मात्रा अकारादयः पञ्च ह्रस्वाः पञ्च दीर्घा दश मिलिता भवन्ति / ह्रस्वान्ते अनुस्वारमात्रा 5 षष्ठी, दोर्घान्ते विसर्गमात्रा षष्ठी, ते च व्यञ्जनस्वरसंयोगेनोच्चारणीये। ताभिर्मात्राभिर्युक्तान् समात्रानिति / चरति दिनकरः शून्यषड्वह्निमानैः, षष्ठ्युत्तरत्रिशतमानैरिति / तैः शून्यषड्वह्निमानैदशमासैरयनद्वयञ्च भवति / प्रत्येकेऽयने दक्षिणोत्तरे अशीत्युत्तरदिनशतं भवति / कर्कटादौ दक्षिणायने आकाशादिसृष्टिक्रमेण / षह्रस्वमात्रासहितान् षड्वर्गान् 10 षड्मासैः सूर्यश्चरति संक्रातिमासभेदेन / ततः पृथिव्यादिभेदेन उत्तरायणे दीर्घमात्रासहितान् षड्वर्गान् षड्मासैश्चरति / यत्र ह्रस्वमात्रासहितांश्चरति तत्र रात्रैर्वृद्धिर्भवति; यत्र दोघमात्रासहितांश्चरति तत्र दिनवृद्धिर्भवति / अत्र दक्षिणायनं चन्द्रः, उत्तरायणं सूर्यः। एकव्यञ्जनं चन्द्रः / संयुक्तव्यञ्जनद्वयं सूर्यः / व्यञ्जनत्रयसंयुक्त राहुरिति / एवं ह्रस्वस्वरश्चन्द्रः, दीर्घः सूर्य, प्लुतो राहुरिति सर्वत्र भवति / एवं राहोः प्लुतत्वात् 15 त्रिधा तमो मृदुमध्याधिमात्रात्मकमिति / अत्र कर्कटसंक्रान्तिदिने सृष्टिभेदेन कवर्गस्य ङकारं अकारसहितं चरति सूर्यः, द्वितीये ङि, तृतीये , चतुर्थे कु, पञ्चमे ङ्ग, षष्ठे हुँ / एवं सप्तमदिनादिं कृत्वा द्वादशदिनान्तं धकारं चरति, यथा डकारं विचचार / एवमष्टादशदिनपर्यन्तं गकारं समात्र चरति; चतुर्विंशतिदिनं यावत् खकारं चरति / एवं त्रिंशद्दिनानि यावत् ककारं समानं चरति / शून्यदिने क्वचिदनाहतम् / एवं सिंह- 20 संक्रान्तिमासदिनैस्त्रिशद्भित्रकारादीन् समात्रांश्चरति / कन्यासंक्रान्तिदिनैः णकारादीन् समात्रांश्चरति / तुलासंक्रान्तिदिनैर्मकारादीन् समात्रांश्चरति / वृश्चिकसंक्रान्तिदिनैनकारादीन् समात्रांश्चरति / धनुसंक्रान्तिदिनैः कादीन् समात्रान् व्यञ्जनानि चरति / एवं दक्षिणायने षड्मासदिनैः षड्वर्गान् समात्रानशीत्युत्तरशतसंख्या[39b]श्चरति, चन्द्रस्वभावेन रात्रिवृद्धिभेदेनेति / ततः उत्तरायणभेदो विलोमेन सकारादिना 25 उच्यते / मकरादिसंक्रान्तिमासदिनभेदेन सूर्यः षड्वर्गान् समात्रांश्चरति, संहारक्रमेण दीर्घमात्रासहितान् वर्गानिति / अत्र मकरसंक्रान्तिदिने स्साः समानं चरति, द्वितीये स्सल मात्रांस्तृतीये स्सू, चतुर्थे स्स, पञ्चमे स्सी, षष्ठे स्सा। एवमपरषड् दिनः / आः न्या. यू. य श्री या एवं ष तथा श | एवं 1. उ. पुस्तके 'षड्' इति नास्ति /