________________ विमलप्रभायां [लोकधातु पूर्णकलान्तं ग्रसति, अमावास्यां (स्यायां) प्रथमकलोदयादि राहुरिति / अत्र कृष्णपक्षे संहारक्रमेण तमसः प्रवेशः पृथिव्यादिना / ततः सृष्टिक्रमोदितानां क्षयः / कृष्णप्रतिपदि पृथिवीतमसि शुक्लप्रतिपदाकाशधातुकलाप्रविष्टा तमसाच्छादिता भवति; द्वितीया वायुकला उदकतमसाच्छादिता भवति; तृतीया वह्निकला वह्नितमसाच्छादिता भवति; चतुर्थी उदककला वायुतमसाच्छादिता भवति; पञ्चमी पृथिवीकला आकाशधातुतमसाच्छादिता भवति / एवं प्रथमकाण्डे तमःप्रवेशमात्रा मृदुर्भवति / ततो द्वितीयकाण्डेऽप्युक्तक्रमेण तम आच्छादनक्रिया / तस्मिन् द्वितीयकाण्डे तमो मृदुमात्रा; पूर्वकाण्डे मध्यमात्रा / एवं तृतीयकाण्डेऽपि तम आच्छादन क्रिया। तस्मिन् काण्डे मदुमात्रा; द्वितीयकाण्डे मध्यमात्रा; तृतीयाधिमात्रा। तत्राधि10 मात्रायाः पञ्चधा भेदः। एकादश्यां बालः, तमोऽधिमात्राभेदेन; द्वादश्यां कुमारः; त्रयोदश्यां युवा; चतुर्दश्यां वृद्धः; अमावस्यां (वस्यायां) परिपक्वो भवति / एवं द्वितीयकाण्डे मध्यमात्रायाः;' तृतीयकाण्डे तमो मृदुमात्रायाः / ततः शुक्लप्रतिपदागमे पक्वतमसः पृथिवीधातुलक्षणस्यापश(स)रणं भवति / द्वितीयायामुदकतमसः, तृतीयायां वह्नितमसः, चतुर्थ्यां वायुतमसः, पञ्चम्यामाकाशधातुतमसः / एवं प्रथमकला मृदु[38b]15 मात्रा, पृथिवी पूर्णा पक्वा भवति; द्वितीया वृद्धा; तृतीया युवती; चतुर्थी कुमारी; पञ्चमी बाला; षष्ठयादयोऽस्तङ्गताः तिष्ठन्ति / एवं मद्रकाण्ड कलायां मदपाके न च तमःप्रवेशः स्यात, कृष्णपक्षे यावत् तृतीयाधिमात्रा पाक नागच्छतीति | आसां प्रत्येक पञ्चदशकलानां षोडशमे दिने अस्तङ्गतानामुदयः, उदितानां षोडशमे दिने अस्तङ्गमनम् / एवं चन्द्रकला आद्यास्त्रिंशत् स्वराः संज्ञाः कलाः शुक्लाः तमः20 प्रविष्टाः। कृष्णा उपचारेण संज्ञिन्यः। आसां स्वरा मन्त्रपदानि शुक्लकृष्णानां प्रतिपदा दीनाम् / अँ इँ ऋउँ लँ अँएँ अरओं अल् है य र व लँ। 15 / लाः वाः राः याः हाः आल्ः औः आर्ः ऐः आः लूः ऊः ऋः ईः आः / 15 / इति शुक्ले पक्षे चन्द्रो बिन्दुविभूषितः / पञ्चदशकलात्मा सूर्यः कृष्णपक्षे विसर्गभूषितः पञ्चदशकलाच्छादकः / ह्रस्वश्चन्द्रो दीर्घः सूर्यः / एवं गुणश्चन्द्रो वृद्धिः सूर्यः / पूर्ववत् हादय इति / काद्यान् वर्गान् समात्रांश्चरति दिनकरः शून्यषड्वह्निमानैरिति / इह ककारो येषां वर्गाणामादिस्ते ककारादयो वर्गाः। वर्गा इति पञ्चाक्षरसमूहः / पञ्चाकाशादिपृथिव्यादिभेदेन पठ्यते, स्वरसमूहः सर्वदाकाशादिभेदेन पठ्यते / अत्र प्रत्याहारो ज्ञापक सर्वत्र व्यञ्जनपाठे / अत्र शुद्धव्यञ्जनानि त्रिंशत्, यकारादीनि स्वरविकाराणि / अन्यत्र ककारादिना व्यञ्जनपाठन संगृहीतानि / आदिस्वरकाण्डे पठितानीति; तद्यथा30 अ इ ऋ उ ल क् / अ ए अर् ओ अल् च / ह य र व लडिति / ततो ङ अ ण म नन् / घ झ ढ भ धध् / ग ज ड ब दद् / ख छ ठ फ थथ् / क च ट प तत् / क श ष य 1-2. ङ. पुस्तके अत्र 'तमो मृदुमात्रायाः' इति पाठः; अतो परं 'तृतीयकाण्डे तमो मृदुमात्रायाः' इति पाठो नास्ति; किन्तु भो. पुस्तके अस्ति। 3. भो. Sel ba (अपाकरण)। 4. कलाद्या। 5. भो. पुस्तके '15' इति संख्या नास्ति / 6. भो. पुस्तके 15' इति संख्या नास्ति /