________________ 48 दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / शरणागता इति यावत्, तेषां जीवितानि-भूयो भूयः संसारे जन्मासादनेन निर्विघ्नत दवस्थानलक्षणजीवितानि, पालयन्ति रक्षन्ति, हि यतः, त्वामाश्रितस्य त्वां-जिनं शरण्यमाश्रितस्य त्वच्छरणागतस्येति यावत्, एष भावः समुपलभ्यमानो भवसम्बन्धिराग-द्वेषादिकः सकलोऽपि, चिरं चिरकालं, कुतः ? न कुतश्चित् , तथा च परवादिषु गुणसद्भावाद् गुणप्रणतजनस्य तेषु नाथबुद्धिर्युक्ता, आश्रित जनभावविनाशकत्वलक्षणदोषवति त्वयि द्वेषश्च युक्तः, अनया च निन्दया भगवतः स्तुतिय॑क्तैव, परवाद्युपासका अनन्तकालं भवेषु भ्राम्यन्ति, त्वदुपासकस्तु भवपाशबन्धनापगमाच्छीघ्रमेव मुच्यत इति // 7 // चित्रत्वेन प्रतीयमानस्यापि चित्रत्वाभावमचित्रत्वेन प्रतीयमानस्य च चित्रत्वं भगवद्विषये दर्शयन् स्तौति चित्रं किमत्र यदि निर्वचनं विवादा न प्राप्नुवन्ति ननु शास्तरि युक्तमेतत् / उक्तं च नाम भवता बहु नैकमार्ग निविग्रहं च किमतः परमद्भुतं स्यात् // 8 // चित्रं किमत्रेति-शास्तरि सति विवादा निर्वचनं न प्राप्नुवन्ति [इति चित्र. त्वेन प्रतीयते, किन्तु] अत्र चित्रं किम् ?, ननु युक्तमेतत्, भवता च बहुना एकमार्गमुक्तं च निर्विग्रहं स्यात् [नेदं चित्रम्] भवता च बहु नैकमार्ग चोक्तं निर्विग्रहं स्यात्, [परमचित्रमिदमत आह] अतः परम् अद्भुतं किम् ?' इत्यन्वयः / शास्तरि वादिप्रतिवादिभ्यामभ्युपगतकथासमयस्य प्रतिपालनकर्तृत्वावबोधनलक्षणशासनकर्तरि तटस्थस्वरूपे च भवति सति, विवादाः एकान्तनित्यत्वैकान्तानित्यत्वादिविषया विविधा वादा मतानि, निर्वचनं निर्णीतवचनम्, निर्णयमित्यर्थः, न प्राप्नुवन्ति नाधिगच्छन्ति. एतद् यद्यपि चित्रं, यतः शास्तरि सत्यवश्यं विवादानां निर्णयेन भाव्यम्, अन्यथा लोकविप्लवः स्यात्, तथाप्यत्र चित्रम् आश्चर्यम्, किम् ? किमपि नाश्चर्यम्, 'तथाहि-ननु कोमलालापे, शास्तरि साधुमतानुशासनकर्तरि सति, विवादानां-परस्परविरुद्धानां