________________ दिवाकर कृता किरणावली कलिता द्वितीया द्वात्रिंशिका / 49 निर्मूलानां प्रलापानाम्, निर्वचनस्य-निरुक्तः सम्यक्तया प्रतिपादनस्येति यावत्, योऽभावः स युक्त एव, असति साध्वनुशास्तरि यथाकथञ्चित् परस्परविरुद्धा अपि प्रलापा निर्वक्तुं शक्यन्ते, सति तु तस्मिस्तदग्रतस्तथाप्रलापात्मकस्य स्वपक्षस्य निर्वचनाभावो युक्त एव / च किञ्च, नामेति कोमलामन्त्रणे, यद्वा नाथेति पाठे हे त्रिभुवनस्वामिन् ! भवता जिनेन, बहुना भावप्रधाननिर्देशाद् बाहुल्येन, एकमार्गम् एकः-मुख्यः, मार्गः-प्रतिपादनपद्धतिर्यस्य तादृशम्, उक्तं प्रतिपादनम्, “वचं परिभाषणे' इत्यतो भावे क्लोबे क्तः, ‘वा क्लोबे" [ 2. 2. 92. ] इति षष्ठीविकल्पनात् कर्तरि तृतीया च, तथा च भवतो जिनस्य प्रतिपादनमित्यर्थः, च पुनः, निविग्रहं निर्विवादं विगतविरोधं तत्, स्यात भवेत् , एकेन भवतैकया पद्धत्या बाहुल्येन प्रतिपादित निर्विरोध स्यादिति यद्यपि नाद्भुतम्. एकव्यक्तिप्रतिपादितस्यकविषयस्य तथात्वौचित्यात्, तथाप्यस्ति परमाश्चर्यमित्याह-अतः परम् अदभुतम्-आश्चय किम् ? यतः बहु प्रचुरम्, नैकमार्ग न एको नैकः, नित्यत्वानित्यत्वादिविविधधर्मावलम्बनेन नानाप्रकारः, एवंविधो मार्ग:-प्रतिपादनशैली यस्य तादृशम्, उक्तं वचनम्, निविग्रहं निर्विरोधं स्यात् , एतदवश्यमेव परमद्भुतमिति भावः / यद्वा भवता महावीरजिनेन, चकारादन्यजिनगणेन, कीदृशेन ? बहुना प्रचुरेण, देशान्तरितकालान्तरिततत्तज्जिनेनेत्यर्थः, एकमार्ग कथञ्चिन्नित्यत्वानित्यत्वाद्यनन्तधर्मास्मैकैकवस्तुप्रतिपादकत्वलक्षण एको मार्गः प्रतिपादनशैली यस्य तादृशं निर्विप्रहं च विरोधरहितं च, उक्तं प्रतिपादनम्, नानेति प्रसिद्धौ, प्रसिद्धमेवैतद्-यदुत, अखिलेनापि जिनेनानन्तधर्मात्मकवस्तुतत्त्वप्रतिपादकं विवादरहितं शासनमेकमेवोक्तमिति प्रवाहतोऽनाद्यनन्तं चेदं शासनम्, अतः परम् इतोऽधिकम् , अद्भुतम् आश्चर्यम्, किं. स्यात् न किञ्चिद् भवेत्, अनेकेऽपि वक्तारो भिन्नसमयव्यवस्थिता अनाद्यनन्तसमयेऽप्येकमेव राद्धान्तं विवादविनिर्मुक्तमुक्तवन्त इति महदाश्चर्यमित्यर्थः // 8 // . 'त्रिभुवनातिशायिनि भगवति जिने निरीक्षितेऽपि यो भवविरक्तो भवसन्तापरहितश्च न भवति नासौ जनो न वाऽतिगुणदोषज्ञ इत्याह