________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / मां प्रत्यसौ न मनुजप्रकृतिर्जिनोऽभू च्छके च नातिगुणदोषविनिश्चयज्ञः / यत् त्वां जिन ! त्रिभुवनातिशयं समीक्ष्य नोन्मादमाप न भवज्वरमुन्ममाथ // 9 // मां प्रत्यसाविति-अत्र पद्ये 'जिनोऽभूत्' इत्यम्य स्थाने 'जनोऽभूत्' इति 'यत् त्वाम्' इत्यत्य स्थाने 'यस्त्वाम्' इति च पाठः सम्यगाभाति / 'हे जिन ! यस्त्रिभुवनातिशयं त्वां समीक्ष्य उन्मादं न आप, भवज्वरं न उन्ममाथ, असौ जनो मां प्रति मनुजप्रकृति भूत् , अतिगुणदोषविनिश्चयज्ञश्च नाभूत्, इति शङ्के' इत्यन्वयः / हे जिन ! जितरागादिरिपो !, यो जनः, त्रिभुवनातिशय त्रिभुवनं-त्रिलोकम, अतिशेते-महिम्नाऽतिकामतोति त्रिभुवनातिशयस्तथाभूतम् , त्वां समीक्ष्य प्रत्यक्षीकृत्य, उन्मादं लौकिकदृष्टया उन्मत्तभावं सांसारिकविषयानासक्तिमिति यावत् , न आप न प्राप्तवान् , तदा भवज्वर सांसारिकसंतापम् , न जन्ममाथ न उन्मूलयामास, असौ तथाभूतः, जनः मनुष्यः, मां प्रति मम दृष्ट्या, मनुजप्रकृतिर्न मनुष्यस्वभावो न, अभूत् , किन्तु पशुस्वभाव एवेति भावः, अस्तु वा तस्य पामरमनुजसाधारणस्वभावत्वं, किन्तु अतिगुणदोषविनिश्चयज्ञः अति-अत्यन्तम् , गुण-दोषयोः-कर्तव्याऽकर्तव्ययोः साधुत्वासाधुत्वयोर्वा, विनिश्चय-विनिर्णयं जानातीति तादृशः, नाभूत् नेवाभवत्, इति शके सम्भावयामीत्यर्थः, तस्य मनुजप्रकृतित्वे तत्रापि साधुत्वासाधुत्व विवेचनरूपमनुष्यासाधारणगुणयुक्तत्वे च सति स त्वदर्शनानन्तरमवश्यमेव विषयेभ्यो वैचित्त्यं भवतापशान्ति च प्राप्नुयादिति भावः // 9 // हे जिन ! अन्येऽपि वादिनोऽन्ते त्वामेव शरणीकृत्य शिवं गता नान्यथेत्याह अन्येऽपि मोहविजयाय निपीडय कक्षा मभ्युत्थितास्त्वयि विरूढसमानमानाः। अप्राप्य ते तव गति कृपणावसाना' स्त्वामेव वीर ! शरणं ययुरुद्वहन्तः // 10 //