________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका : 51 marnama अन्येऽपीति---'अन्येऽपि त्वयि विरूढसमानमानाः कक्षा निपीड्य मोहविजयायाभ्युत्थिताः, कृपणावसनास्ते तव गतिमप्राप्य हे वीर ! त्वामेव शरणमुद्वहन्तो ययुः' इत्यन्वयः / अन्येऽपि तीर्थान्तरीया अपि, त्वयि जिने, विरूढसमानमानाः विशेषेण रूढः-परिगृहीतः, समानो मानो यैस्ते विरूढसमानमानाः, यथा जिनो विषयासक्त्यादिकं परित्यज्य गृहीतवैराग्यदण्डोऽनगनादितपस्यया मोहं जितवान् , तथाऽहमपीत्येवं विरूढसमानमानाः, कक्षा निपीड्य मोहविजयोपायसामग्रीसम्पादनलक्षणकक्षां नितरां पीडयित्वा-तद्गतविघ्नादिक्षुद्रोपद्रवशान्ति कृत्वा, यो हि समकक्ष-शत्रु पराजयितुमिच्छति स स्वबलाधानाय कक्षां निपीडयतीत्युत्सर्गः, मोहविजयाय मोहलक्षणशत्रुविजयार्थम् , अभ्युत्थिताः सर्वप्रकारेण सम्भृतविजयसामग्रीकाः, एवमपि कृपणावासनाः कृपणं भावप्रधाननिर्देशात कार्पण्यम् , अवसाने-अन्ते येषां ते कृपणावसानाः अथवा कृपणस्यावसानं पर्यवसानं-परिसमाप्तिर्येषु ते कृपणा. वसानाः, तथाविधपत्यादिकरणसामर्थ्याभावादत्यन्तकृपणाः सन्तः, ते परवादिनः, तव जिनस्य, गति मोहविजयादिपूर्वकमुक्तिधामगमनादिलक्षणां गतिम् , अप्राप्य अनासाद्य, हे वीर !, त्वामेव शाणं जिनमेव शरणभूतम्, उद्वहन्तः आश्रयन्तः, ययुः ते गति प्राप्तवन्तः // 10 // . हे जिन ! ग्रन्थरचनाद्यभिमानमपि परेषां त्वद्वचोव्याख्यानोद्यमारम्भाभाव एवेत्युपदर्शयति - __ तावद् वितर्करचनापटुभिवचोभि- . मेधाविनः कृतमिति स्मयमुद्वहन्ति / यावन्न ते जिन ! वचःस्वभिचापलास्ते सिंहासने हरिणबालकवत् स्खलन्ति // 11 // तावदिति / वितर्करचनापटुभिर्वचोभिः कृतमिति स्मयं तावन्मेधाविन उद्वहन्ति, हे जिन ! ते वचःस्वभिचापलास्ते यावन्न स्खलन्ति सिंहानने हरिणबालकवत्' इत्यन्वयः / वितर्करचनापटुभिः विशिष्टा या तर्कस्य रचना तस्यां पटुभिः समः, वचोभिः वचनैः, कृतं रचितमेतत् प्रकरणम् , इति