________________ 52 दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / स्मयम् इत्याकारकाभिमानम् , तावत् तावत्कालम् , मेधाविनः धारणा. वज्ज्ञानशालिनः, उद्वहन्ति धारयन्ति, हे जिन ! ते तव, वचस्सु अनन्त. धर्मात्मकवस्तुप्रतिपादकनयनिक्षेपाद्याकलित-प्रतिधर्मव्यापिसप्तभङ्गयात्मकवचनेषु अभिचापालाः अत्यन्तचापल्ययुक्ताः, ते मेधावित्वाद्यभिमानिनोऽभिनवग्रन्थकर्तारः, यावत् यावत्कालम् , न स्खलन्ति त्वद्वचस्तात्पर्यानभिज्ञत्वात् तद्वयाख्या. नासामर्थ्यलक्षणस्खलनां नाप्नुवन्ति, तत्र निदर्शनं-सिंहानने केसरिणो मुखे, हरिणबालकवत् , मृगशिशुरिव, यावत् सिंहाननं न प्रविशति मृगशिशुस्ताव. देव गतिचापल्याभिमानस्तस्य यथेत्यर्थः // 11 // हे जिन ! त्वद्भाषितापमान परायणानां बालानामज्ञानान्धकारोत्तीर्णत्वाभावान्न सौख्यमतः सुखस्पृहयालवो भवद्भाषितान्यनुसरेयुरेवेत्याह त्वद्भाषितान्यविनयस्मितकुञ्चिताक्षाः __ स्वग्राहरक्तमनसः परिभूय बालाः / नैवोद्भवन्ति तमसः स्मरणीयसौख्याः पाताललीनशिखरा इव लोध्रवृक्षाः // 12 // त्वद्भाषितानीति- 'अविनयस्मितकुञ्चिताक्षाः स्वग्राहरक्तमनसः स्मरणीय. सौख्याः बालाः त्वद्भाषितानि परिभूय तमसो नैवोद्भवन्ति, पाताललोनशिखरा लोध्रवृक्षा इव' इत्यन्वयः / अविनयस्मितकुञ्चिताक्षाः अविनयेन-आप्तप्रवरजिनादिकं प्रति विनयभावेन औद्धत्येन यत् स्मितम्-ईषद्धास्यं, तेन आकुञ्चितानिईषत्संकुञ्चितानि, अक्षोणि-चक्षुषि येषां ते अविनयस्मितकुञ्चिताक्षाः, स्वग्राहरक्तमनसः स्वं प्राहवत्-मकरवत् स्ववशे स्थापयन्ति ये ते स्वग्राहाः परतैर्थिकाः, तेषु, रक्त-हितोपदेष्टत्वेनासक्तं मनो येषां ते स्वग्राहरक्तमनसः, स्मरणीयसौख्याः ग्राहासक्तचेतसां यदा कदाचिद् ग्राहमुखनिपतनात् सम्भावितमरणानां सौख्यं न भवत्येवेति स्मरणोयं सौख्यं येषां ते स्मरणीयसौख्याः, परतैर्थिकस्वरूपग्राहसन्निहितानां तद्विश्वसितानां यदा कदाचिद् दुःखमेव सन्निहितं न तु सुखलेशोऽपीति, एवंभूता बालाः अज्ञानिनः, हे जिन ! त्वद्भाषितानि त्वद्वचनानि, परिभूय तदर्थाननुष्ठानलक्षणपरिभवास्पदं कृत्वा, तमसोऽज्ञानलक्षणान्धकारात् , नैवोद्भवन्ति न