________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिशिका / 53 पृथग्भूय -प्रकटीभवन्ति, अज्ञानान्धकार एव निमज्जन्तीति यावत् , अत्र निदर्शनंपाताललीनशिखराः पाताले पातालसदृशे गिरिगुहादिगतनिम्नतमप्रदेशे लीनंनिमग्नं, शिखर - स्वोपरितनभागो येषां ते पाताललीशिखराः, लोध्रवृक्षा इव वृक्षविशेषा इव, यथा लोध्रवृक्षोऽल्पपरिमाणः सुगन्धरहितानल्पपुष्पभाराक्रान्तो वयसां नालयो भवति किन्तु गिरिगुहान्धकारपरिगत एव भवतीत्यर्थः // 12 // हे जिन ! सकलजनसाधारण्येनोपदेशं कुर्वतोऽपि भवतो यः कश्चिदभव्यो गाढमिथ्यात्वो भव्यो वा नोपदेशं गृह्णाति तत्र तस्यैव जीवस्य कर्म विस्फुरितमित्युपदिशति सद्धर्मबोजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् / तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्या शवो मधुकरीचरणावदाताः // 13 // सद्धर्मेति-'हे लोकबान्धव ! सद्धर्मबीजवपनानघकौशलस्य तथापि यत् खिलान्यभूवन् तत् अद्भुतं न, इह तामसेषु खगकुलेषु मधुकरीचरणावदाताः सूर्या शवः' इत्यन्वयः। हे लोकबान्धव ! लोकानां त्रिभुवनवासिनाम् , अविशेषेण हितार्थ प्रवर्तमानत्वाद् बान्धव इव, सद्धर्मबीजवपनानघकौशलस्य सद्धर्म एव-परमपुरुषार्थमोक्षावन्ध्यकारणज्ञान-दर्शन-चारित्रलक्षणस्तत्कारणब्रह्मचर्याsस्तेयादिलक्षणो वा सद्धर्म एव, बीज-मोक्षानन्दकन्दजनकत्वेन बीजमिव, तस्य यदुपदेशद्वारा जीवात्मकक्षेत्रेषु वपनं तत्रानघ-निष्पापं विघ्नरहिति यावत्, कौशलं-नैपुण्यं यस्य स सद्धर्मबीजवपनानघकौशलस्तस्य, तवापि जिनस्यापि, खिलानि कानिचिदभव्यजीवक्षेत्राणि अकृष्टभूसमानि, यत्रोप्तं बीजं नाकुरायालमिति, खिलानि सद्धर्मबोधरहितानि, अभूवन् अभवन् , यदेतत् तत् अदभुतं आश्चर्य न, अत्र निदर्शनम्-इह अस्मिन् लोके तामसेषु तमःप्रधानेषु रात्रावेवान्धकारनिरन्तरापूरितप्रदेशे विहरमाणेषु घूकादिषु, खगकुलेषु पक्षिगणेषु, सूर्या शवः सर्वजीवान् प्रत्यविशेषेण प्रकाशकारित्वकस्वभावाः