________________ 54 दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / सूर्यकिरणाः, मधुकरीचरणावदाताः मधुकरीणां-भ्रमरोणां, येऽत्यन्तकृष्णवर्णाः चरणाः-पादाः, तेषामिवावदाता:-अत्यन्तप्रकाशप्रतिरोधकनीलिमाभाज इत्यर्थः // 13 // हे जिन ! ये खलु त्वच्छासनार्थमनवबुद्ध्वैव पुरुषकारमास्थाय मुक्तिमभिलषन्ति ते पतन्त्येवाधो न तु मुक्तिमन्यदप्यभीष्टं वाऽऽसादयन्तीत्याह स्वच्छासनाधिगममूढदिशां नराणा माशास्महे पुरुषमप्यनुपत्तमेव / उन्मार्गयायिषु हि शीघ्रगतिर्य एव नश्यत्यसौ लघुतरं न मृदु प्रयातः // 14 // त्वच्छासनेति-स्वच्छासनाधिगममूढदिशां नराणां पुरुषमप्यनुपन्नमेवाशास्महे, हि [यतः) उन्मार्गयायिषु य एव शीघ्रगतिः, असौ लघुतरं नश्यति, न मृदु प्रयातः' इन्यन्वयः / हे जिन ! त्वच्छासनाधिगममूढदिशां त्वच्छासनस्य-अनेकान्ततत्त्वप्रतिपादकत्वदीयस्याद्वादराद्धान्तस्य, अधिगमे-सम्यगावगतो, मूढदिशां-मूढा मोहाक्रान्ता दिक्-उपाय प्रकारो येषां ते मूढदिशस्तेषां स्याद्वादार्थाधिगमोपायातिरिक्तोपायज्ञानलक्षण दिग्भ्रमशालिनामिति यावत् , नराणां जनानाम् , पुरुषमपि पुरुषकारमपि, प्रयत्नमपीत्यर्थः, अनुपन्नमेव अनु-पश्चात् समीपे वा, पन्नं-पतनं ततस्तादृशमेव, आशास्महे मन्यामहे, अत्र "अनुपत्तमेव" इति स्थाने "अनुपन्नमेव” इति पाठः स्वीकृतः, यद्वा "पुरुषमप्यनुपत्तमेव" इति स्थाने "ऽपरुषमप्यनुयत्नमेव" इति पाठः, तथा च अनुयत्नमपि स्वानुरूपतया स्वीकृतं यत्नमपि, अपरुषमेव मृदुमेव, प्रयत्नाभावमेति गूढाभिप्रायः, आशा स्महे अभिलषामः, यदीदृशः प्रयत्नो न स्यान्न स्यादेषामनिष्टमिति प्रयत्नाभाव एव श्रेयानितीच्छाम इति भावः / हि यतः, यस्मात् करणात् , उन्मार्गयायिषु अभीष्टप्रामावाप्तिमार्गमुल्लङ्घयान्यमार्गगमनशीलेषु पथिकेषु, य एव पथिकः, शीघ्रगतिः शीघ्रं यथा स्यात् तथा गतिः-गमनं यस्य स शीघ्रगतिः, शीघ्रगमनानुकूलप्रयत्नवान् , असौ शीघ्रगमन प्रयत्नवान् पथिकः, लघुतरं शीघ्रमेव, नश्यति अभीष्टस्थानमनासाद्य चौरागुपद्रुतस्थानं प्राप्य नश्यति, नं मृदु प्रयातः यो मन्दं मन्दं गच्छति स न नश्यति, मार्गभ्रष्टस्यापि तस्य दूरगमनाभावेन सन्नि