________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / 55 हिततया दैवयोगात् सन्मार्गज्ञपुरुषस्य तन्मध्य एव सम्मेलनतस्तदुपदिष्टाभीष्टदेशप्राप्तिमार्गज्ञानात् तन्मार्गानुसरणतोऽभीष्टदेशावाप्ल्या विनाशाभावसम्भवादित्यर्थः / / 14 / / * हे जिन ! मा भवतु त्वच्छासनाधिगमः, त्वद्रूपज्ञानमपि रागविनाशद्वारा भवोच्छेदप्रत्यलमित्याह-. तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः संसारसंस्थितिभिदः श्रुतवाक्यमुद्राः / पर्याप्तमेकमुपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेव // 15 // तिष्ठन्त्विति-'अतिसूक्ष्मगभीरगाधाः श्रुतवाक्यमुदाः संसारसंस्थितिभिदः तावत् तिष्ठन्तु, उपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेवैकं पर्याप्तम्' इत्यन्वयः / अतिसूक्ष्मगभीरगाधाः अतिसूक्ष्म-स्थूलधियामगोचरं क्षयोपशमविशेषशालिपुरुषगम्यं, गभीर-गूढ़, गधं-हृदयं तात्पर्य येषां ते अतिसूक्ष्मगभीरगाधाः, श्रुतवाक्यमुद्राः श्रुतस्य-द्वादशाङ्गीलक्षणशासनस्य, यानि वाक्यानि तेषां मुद्राः-अनेरान्तद्योतकतत्तद्धर्मावच्छेदबोधकतत्तन्नयमेदगर्भार्थस्याच्छब्दाः, स्यात्पदाङ्कितास्तित्व-नास्तित्वादितत्तन्नयाभिमतावच्छेदमेदनियन्त्रितानेकान्तधर्मप्रतिपादकश्रुतवाक्यानीति यावत् , संसारसंस्थितिभिदः संसारस्यचतुर्विधगतिभ्रमणलक्षणसंसरणस्य संस्थितीनाम्-ईदृशकर्मकर्तुरीदृशं संसरणमित्यादिस्थितीनाम् , भिद्-भेदो याभिस्ताः संसारसंस्थितिभिदः, तिष्ठन्तु तावत् सन्तु तावत् , जैनागमार्थ सम्यग् जानन्तः संसारस्वरूपाभिज्ञाः सन्तस्ततो विरक्ताः स्युरेवेत्यभिसन्धिः. उपपत्तिसचेतनस्य युक्तियुक्तविशिष्टज्ञानशालिनः पुंसः, रागार्चिषः पुत्र-कलत्र-धनादिकामनामीन् , शमयितुं विनाशयितुम् , हे जिन ! तव रूपमेव शस्त्रादिहीनकरादिघटितशरीरस्वरूपमेव, एकं केवलम्, पर्याप्तं समर्थम्, यदाह"प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं, वदनकमलमङ्कः कामिनीसङ्गशून्यः / करयुगमपि यत् ते शस्त्रसम्बन्धवन्ध्यं, तदसि जगति देषो वीतरागस्त्वमेव // 1 // "