________________ दिवाकर कृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / तव शस्त्रवस्त्रालङ्करणहीनविप्रहमात्रदर्शनमपि कुर्वन् कः सचेता रागविमुक्तो न स्यादिति हृदयम् // 15 // हे जिन ! रे त्वत्स्वरूप न जानन्ति ते वस्तुतोऽविरक्ताः एव स्वसमीपतानन्धश्रद्धयैव विश्वासयन्तो व्यसने पातयन्तीत्युपदर्शयति वैराग्यकाहलमुखा विषयस्पृहान्धा ज्ञातुं स्वमप्यनधिया हृदयप्रचारम् / नातः परं भव इति व्यसनोपकण्ठा विश्वासयन्त्युपनतांस्त्वयि मूढसंज्ञाः // 16 // - वैराग्यकाहलमुखा इति-त्वयि मूढसंज्ञा वैराग्यकाहलमुखा विषयस्पृहान्धाः व्यसनोपकण्ठाः स्वमपि हृदयप्रचारमपि ज्ञातुमनधिया उपनतान् नातः परं भव इति विश्वासयन्ति' इत्यन्वयः / हे जिन ! त्वयि त्वत्स्वरूपे, .मूढसंज्ञाः मूढा-अनवगाहिनी, संज्ञा-मतियेषां ते तथा, स्वस्वरूपाभिज्ञानरहिता इत्यर्थः, वैराग्यकाहलमुखा अहं विरक्तोऽहं विरक्त इति कोलाहलमात्रकारिणो न तु वस्तुतो विरक्ताः, विषयस्पृहान्धाः कलत्रं मे भवतु पुत्र-धनादयो मे भवनित्वति विषयस्पृहया-विषयकामनया अन्धा-मुक्तिमार्गानवलोकिनः, व्यसनोपकण्ठाः द्यूतादिकव्यसनपरिगताः, स्वर्माप आत्मीयपि, आस्तामन्येषां हृदयप्रचारं हृदयस्य प्रचारमभिप्रायम् , ज्ञातुं बोद्धम्, 'अनधिया' इति स्थाने 'अनधिपा' इति पाठः सम्यक्, अनीशा असमर्था इति तदर्थः, उपनतान् आश्रितान , अतः परं वर्तमानभवाद् अनन्तरं, न भवः न संसारः, इति एवं, विश्वासर्यान्त श्रद्धापयन्तीत्यर्थः // 16 // मनोगतजिनवागुद्द्योतप्रकाशविकला जनाः सत्त्वोपघातपरायणा एकान्तवाद्युपढौकितवाङ्मद्यपानोन्मत्ता अन्धं तमः प्रविशन्तीत्याह-. सत्त्वोपघातनिरनुग्रहराक्षसानि वक्तप्रमाणरचितान्यहितानि पीत्वा / अद्वारकं जिन ! तमस्तमसो विशन्ति येषां न भान्ति तव वाग्द्युतयो मनस्सु // 17 //