________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिशिका / 57 . सत्त्वोपघातेति-'हे जिन ! येषां मनस्सु तव वाग्द्युतयो न भान्ति [ते] सत्त्वोपघातनिरनुग्रहराक्षसानि वक्तृप्रमाणरचितान्यहितानि पीत्वा तमसस्तमोऽ. द्वारकं विशन्ति' इत्यन्वयः / हे जिन ! राग-द्वेषाद्यखिलभावारातिजयावाप्तकेवल ! ज्ञानशालिभगवन् ! येषां परवादिविप्रतारितानां मूढानाम् , मनस्सु अन्तःकरणेषु, तव जिनस्य, वाग्द्युतय अनेकान्ततत्त्वप्रतिपादकस्याद्वादोद्योताः, न भान्ति समीहितार्थतत्त्वतात्पर्यवत्तया न प्रकाशन्ते, यत्तदोनित्यसम्बन्ध इति येषामिति पदोक्तिबलात् ते इति पदमनुक्तमप्युपस्थितं भवति, ते जिनवाक्यातिप्रकाशानाचान्तहृदयाः, सत्त्वोपघातनिरनुग्रहराक्षसानि सत्त्वाः-प्राणिनस्तेषामुपघातोवध-पीडादिस्तत्र निरनुग्रहाणि-अनुकम्पादिरक्षणानुग्रहरहितानि, राक्षसानि-राक्षससदृशानि 'रक्षस्'शब्दो नपुंसके वर्तते, रक्षांसि एवेति स्वार्थेऽणि राक्षसानि, "प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिकाः वचित्' इत्यत्र क्वचिद्ग्रहणाद् यथा प्रकृता यवागु:-‘यवागुमयी, यवागुमयम्' इत्यत्र विकल्पेन लिङ्गातिवर्तनं भवति तथा प्रस्तुतेऽपि विकल्पेन लिङ्गपरिवर्तना नपुंसकत्वं पुंस्त्वं च, तत्र नपुंसकत्वादरोऽत्रेत्याभाति, वक्तृप्रमाणरचितानि वक्तैव प्रमाणं वक्तृप्रमाणं तेन रचितानि, अथवा वक्तुः प्रमाणं- वक्तृमात्रानुमतं प्रमाणं वक्तृप्रमाणं तेन रचितानि, अस्मिचप्यर्थे वक्तव प्रमाणं वक्त्रभिमतप्रमाणमिति कृत्वा वक्तृकल्पनामात्ररचितानीति यावत् , अहितानि न विद्यते प्रतिपाद्यत्वेन हितं येषु तान्यहितानि हितप्रतिपादकत्वाभाववन्ति, अथवाऽहितप्रतिपादकवचनमहितमित्युच्यत इत्यहितप्रतिपादकानि वचनानि, वक्ष्यमाणपाक्रियाद्यनुरोधात् तादृशवचनरूपाणि मद्यानीत्यर्थः, पीत्वा यथा हृदयं तदादं भवति तथा निपीय, तमसस्तमः अत्यन्तनिबिडमन्धकारं महामोहान्धकारमिति यावत् , अद्वारकं न विद्यते द्वारं-बहिनिर्गमनमार्गो यत्र तदद्वारकम् , तदन्तःप्रविष्टस्य बहिनिर्गमनं न भवतीति यावत्, विशन्ति प्रविशन्ति, अन्धे तमसि प्रविष्टास्ते तत्रैवावतिष्टन्ते न पुनमहामोहविमुक्ता भवन्ती. यर्थः // 17 // जिनशासनविमुखेषु परवादिषु महामोहविजम्भितमसाधारणमित्युपदर्शयतिदग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभीरुनिष्ठम् /