________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / . मुक्तः स्वयं कृतभवश्च परार्थशूरः . . त्वच्छासनप्रतिहतेष्विह मोहराज्यम् // 18 // दग्धेन्दन इति-'हे जिन ! इह त्वच्छासनप्रतिहतेषु मोहराज्यम् , दग्धे. न्धनः निर्वाणमपि प्रमथ्य अनवधारितभीरुनिष्ठं भवं पुनरुपैति परार्थशूरः स्वयं मुक्तः कृतभवश्च' इत्यन्वयः / हे जिन ! इह अस्मिन् संसारे, त्वच्छासनप्रतिहतेषु जिनाज्ञामुल्लङ्घय क्रियानुष्ठानोपदेशपरायणेषु परेषु, मोहराज्यं मोहस्यममेदमिति ममताभिमानस्य साम्राज्यम् , कीदृशं तदित्याकाङ्क्षायामाह-दग्धेन्धनः दग्धानि-ज्ञानाग्निना दग्धानि, इन्धनानि-पुण्यपापलक्षणकर्माणि यस्य स दग्धेन्धनः, सर्वथा पुण्यपापविनिर्मुक्त:, निर्वाणमपि निवृतिमपि मुक्तिमपीति यावत् , प्रमथ्य प्राप्तमपि निर्वाणं परित्यज्य, अनवधारितभीनिष्ठम् अवधारिताअवधारिता-इयतीति निर्णीता, न तथेत्यनवधारिता, प्रचुरेति यावत् , एतादृशी भीरूणां-भयग्रस्तानां स्वानुयायिनां निष्टा-विनाशो यत्र तादृशं भवम् , यद्वा अनवधारिता गणनातीता ये भीरवस्तेषां निष्टा-याचना यस्मिस्तादृशं यथा स्यात् तथेति क्रियाविशेषणम , भवं संसारम , पनः क्षयानन्तरमपि, उपैति प्राप्नोति, एवंभूतो जनः क दृशः ? पदार्थशूरः परस्य भया!दनिवृत्तिलक्षणार्थनिष्पत्तये पराक्रमशाली, स्वयंमुक्तः स्वयं निर्वाणमवाप्तोऽपि सन , कृतभवश्व परोपकारार्थं गृहीतजन्मादि चेत्येवं मोहराज्यम् , तदुक्तम् "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् / गत्वा गच्छन्ति भूयोऽपि. भवं तीर्थनिकारतः // 8 // इति, मोहराज्यतादाढर्यायात्र "अज्ञानपांशुपिहितं पुरातनं कर्मबीजमविनाशि / तृष्णाजलाभिषिक्तं मुञ्चति जन्माकुरं जन्तोः // 9 // [ ] दग्धे बीजे यथात्यतं, प्रादुर्भवति नाङ्करः / / कर्मबीजे तथा दग्धे, न भवति भवाङ्कुरः // 10 // "[ ] इत्यादिकमनुसन्धेयम् // 18 // अन्ये पुण्य-पापयोर्यथार्थस्वरूपानभिज्ञाः पापानभिलाषिणः पुण्याभिलाषिणश्च,