________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका। 59 mamimmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm जिनस्तु भगवान् पुण्य-पापयोर्यथार्थस्वरूपाभिज्ञोऽपि पाप-पुण्योभयमपि ज्ञानाग्निनाऽधाक्षीदिति वैशिष्टयमुपदर्शयति-- पापं न वाञ्छति जनो न च वेत्ति पापं पुण्योन्मुखश्च न च पुण्यपथः प्रतीतः। निःसंशयं स्फुटहिताहितनिर्णयन्तु त्वं पापवत् सुगत ! पुण्यमपि व्यधाक्षीः // 19 // पापं न वाञ्छतोति-'जनः पापं न च वाञ्छति पापं न च वेत्ति, पुण्योन्मुखश्च न च पुण्यपथः प्रतीतः, सुगत ! निसंशय स्फुटहिताहितनिर्णयस्त्वं तु पापवत् पुण्यपि व्यधाक्षीः' इत्यन्वयः / जनः अनधीतजिनशासनो लौकिकपरीक्षकसाधारणः पुरुषः, पापं नरकादिदुःनिमित्तमशुभं कर्म तत्प्रभवमहितसाधनमदृष्टं च, न वाञ्छति नेच्छति, पापं में भवत्वितीच्छावान् न भवतीति यावत , च पुनः, पापं निरुक्तस्वरूपमदृष्टम् , न वेत्ति न जानाति, च पुनः, पुण्योन्मुखः पुण्यं मे भवत्वियभिलाषावान् पुरुषः, च पुनः, न नैव, पुण्यपथः प्रतीतः तेनेत्यध्याहार्यम् , तथा च निरुक्तजनेन पुण्यमार्गो नैव ज्ञातः, यद्वा “न च पुण्यपथप्रतीतः” इति पाठः, प्रतीतः-ज्ञातः पुण्यपथो येन स तथा, एवंविधो न आहिताग्न्यादिपाठात् पुण्यपथशब्दस्य प्राग् निपातः, यद्वा “न च पुण्यपथ प्रतोतः” इति पाठः पुण्यमार्ग प्रति न इतः-गत इति तदर्थः, यदि पापस्वरूपं सम्यग् जानीयात् तदैव पापमकामयमानो जनः पापप्रवृत्तिको न भवेत् , तथा च पापफलभुगपि न भवेत् , अन्यथा पापस्वरूपानिष्टत्वाप्रतिसन्धानात् अपरित्यक्तपापकर्मा तत्फलमश्नीयादेव, एवं पुण्यमार्गाभिज्ञ एव यथावत् पुण्यमार्गानुष्ठानतः पुण्यफलं स्वर्गादिकं प्राप्नुयात् , अन्यथा तु पुण्यमार्गमजानन् यथावत् पुण्यकर्माननुष्ठानात् पुण्याभिलाष्यपि पुण्यफलं नाश्नीयादेवेत्याशयः, सुगत ! गत्यर्थानां ज्ञानार्थत्वेन ज्ञानार्थत्वाद् वर्तमाने कर्तरि कः, तथा च पुण्यपापयोः सम्यगज्ञाता सुगतः, तत्सम्बोधने हे सुगत ! जेन !, निस्संशय संशयरहितं यथा स्यात् तथा, स्फुटहिता-ऽहित