________________ 60 दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / / निर्णयः स्फुटः स्पष्टः, हिताऽहितयोः, निर्णयो निश्चयो यस्य स स्फुटास्फुटहिताहितनिर्णयः, त्वं तु वीतरागो भगवान् जिनः पुनः, पापवत् पापं विज्ञातं यथा दग्धवान् तथा, पुण्यमपि सम्यगविज्ञातं पुण्यमपि, व्याधाक्षीः विशेषेणनिरवशेषेण दग्धवानित्यर्थः, शुभं कर्माशुभं च कर्म स्वस्वफलोपभोगाथं भवे पुनःपुनर्जन्मापादयत्येव जीवमिति न तदुभयं हितम् , पापवत् पुण्यस्यापि भव भ्रमणहेतुत्वात् , किन्तु मोक्षसुखमेव परमानन्दस्वरूपं हितमिति स्पष्टहिताहितनिर्णयवान् जिनः पापवत् पुण्यमप्यहितसाधनत्वादहितमिति तदुभयं परितः शाटयित्वा मोक्षसुखमेवैकं हितमुपादत्त इति हृदयम् // 19 // तीर्थ्यान्तरीयेभ्यः सत्कारलाभावाप्त्यादिफलोपदर्शकोपदेशवचनद्वारा दुःखद्विड्जनहृदयानुप्रविष्टेभ्यो दुःखद्विषं जनं श्रेयोमार्ग प्रति कर्षन जिन एव वैशिष्टयमवाप्तवानित्याह सत्कार-लाभपरिपक्तिशठैर्वचोभि दुःखद्विषं जनमनुप्रविशन्ति तीर्थ्याः / लोकप्रपञ्चविपरीतमधीरदुर्ग श्रेयःपथं त्वमविदूरमुखं चकर्ष // 20 // सत्कारेति-'तीर्थ्याः सत्कारलाभपरिपक्तिशठैवैचोभिर्दुःखद्विषं जनमनु. प्रविशन्ति, हे जिन ! त्वं लोकप्रपञ्चविपरीतमधीरदुर्गमविदूरसुखं श्रेयःपथं चकर्ष इत्यन्वयः ! तीर्थ्याः परतैर्थिकाः, सत्कार-लाभपरिपक्तिशठैः सत्कारः स्वागतवचनपादप्रक्षालनादिकम्बलाद्यासनोपवेशनादिः लाभः-गोभूमिरत्नादिप्राप्तिः, सत्कारलाभयोः परितः पक्तिः-पाकः परिपूर्णता, तत्कृते शठैः-मिथ्याविश्वासकत्वलक्षणकपटयुक्तैः वचोभिः वचनैः, इत्थमनुष्ठिते सति तव लोके सत्कारो भविष्यति गोभूम्यादिप्राप्तिर्भविष्यतीत्येवं प्रतार कवचनैरिति यावत् . यद्वा अस्मादृशां सत्कारे कृतं गोभूम्यादिदाने च विहिते तवापि लोके लाभसत्कारौ सुतरां भविष्यत इत्येवंरूपैः प्रतारणावचनैः / दुःखद्विषं दुःखं द्वेष्टीति दुःख द्विद, तं दुःख द्विषं दुःखविषयकद्वेषवन्तम् , जनं प्राणिनम् , अनुप्रविशन्ति तद्धृदयप्रविष्टा भवन्तीति, सत्कारलाभपूजाख्यात्यादितो मम सुखं भविष्यति दुःखं