SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / 61 -- ---- च विनक्ष्यतीति, तीर्थ्यान्तरीयोपदेशसन्तुष्टो जनस्तीर्थ्यान् स्वहृदयस्थान् करोति, किन्तु प्रतारणफलकैर्वचनैर्जनस्य तात्कालिकदुःखाभावेऽपि सत्कारलाभाद्यसत्प्रवृत्तितोऽशुभकर्मबन्धत उत्तरकाले दुःखं स्यादेवेति, यद्वा तीर्थान्तरीयाः प्रतारणोपदेशदानेन पापकर्मबन्धतः स्वयमपि प्रान्ते दुःखिनो भवन्तीति तेऽपि दुःखद्वेषिजनान्तर्गता भवन्तीति भावः / हे जिन ! त्वं, लोकप्रपञ्चविपरीतं लोकानां यः सत्कारलाभपूजाख्यात्याद्यवाप्तिप्रयोजनकः प्रपञ्चः, ततो विपरोतं लोकप्रपञ्चरहितम् , अधीरदुर्ग धीराः-धैर्यवन्तः, न धीरा अधीरा धैर्यविकलाः, तेषां दुःखेन गन्तुं शक्यम् , सुखेनाधीरगमनायोग्यम् , अविदरसुख विशेषेण दूर विदूरम् , न विदूरमविदूरं समोपमिति यावत्, अविदूरं सुखं यस्य तदविदूरसुखम् , एतादृशं श्रेयःपथं श्रेयसः-मोक्षस्य, मार्ग-ज्ञान-दर्शन-चारित्रलक्षणमोक्षसाधनम्, चकर्ष दुःखद्विषं जनं निरुक्तश्रेयःपथ प्रत्याकृष्टवान् , जिनस्तथोपदिदेश येनोपदेशेन दुःखद्विह जनो मोक्षमार्ग जिनोपदिष्टमेवानुसरति, ततो नातिचिर संसारदुःखविमुक्तो मोक्षसुखमनुभवतीत्यर्थः / अथ 'चकर्ष' इति स्थाने मध्यमपुरुषत्वात् 'चकर्षिय' इति प्रयोगेण भाव्यम् , कथं स न इति चेत् ? वेदावाक्यवत् पुरुषव्यत्ययादरात् , यद्वा 'त्वम्' इति स्थाने 'तम्' इति दुःखद्विषमित्यस्य परामर्शकः पाठः, भवानिति चाध्याहार्यम् , तदपेक्षया तृतीयपुरुषः, यथा भवान् गच्छतीति, यद्वा 'ह्यकर्षः' इति पाठः, हि निश्चयेन त्वम् अकर्षः आकृष्टवान् , यद्वा च कर्षन्' इति पाठः, असीति शेषः, सर्वत्रापि दुःखद्विषो मुक्तिमार्ग प्रति नयनं जिनकृतमिति फलति, यद्वा च कर्ष' इति विश्लेषः; कर्ष नय, दुःखिनां मुक्तिं प्रति जिनकृतं नयन प्रार्थयामहे इत्यर्थः // 20 // - हे जिन ! त्वद्वाक्यपवित्रितान्तःकरणानां जनानां सुरेन्द्रे तिर्यक्षु च स्वोपाजितकर्मकृतोत्कृष्टापकृष्टमेददर्शनजन्यः खेदो न भवति, परसिद्धान्तालीढहृदयानां च “ईश्वरप्रेरितो गच्छेत् श्वभ्रं वा स्वर्गमेव वा' इत्यादिवचनादीश्वर एव कञ्चन जीवं नरके पातयति कञ्चन स्वर्ग नयतीतीश्वरकृतैतद्वैलक्षण्यं ज्ञात्वा सुखिन एव सर्वान् विधातुं समर्थोऽपीश्वरः कथं दुःखिनमपि विदधाति, एवं विषमं विदधतस्तस्य रागद्वेषौ स्यातामित्येवं विकल्पजनितः खेदः स्यादेवेति जिनवचनमेवादेयमित्युपदर्शयति
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy