________________ 62 दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / दैत्याङ्गनातिलकनिष्ठुरवज्रदीप्तौ शके सुरोघमुकुटाचिंतपादपीठे / तिर्यक्षु च स्वकृतकर्मफलेश्वरेषु तद्वाक्यपूतमनसां न विकल्पखेदः // 21 // दैत्याङ्गनेति-“दैत्याङ्गनातिलकनिष्पुरवज्रदीप्तौ सुरौघमुकुटाचिंतपादपीठे शके स्वकृतकर्मफलेश्वरेषु तिर्यक्षु च तद्वाक्यपूतमनसां विकल्पखेदो न' इत्यन्वयः। दत्याङ्गनातिलनिष्ठुरवज्रदीप्तौ दैत्यानाम्-असुराणाम् , या अङ्गनाःस्त्रियः, तासां सौभाग्यसूचके सिन्दूरकुङ्कुमादिकृते भालस्थे तिलके-बिन्दुविशेषाकारे, निष्ठुरा-दयारहिता, वज्रस्य दीप्तिर्यस्य स दैत्याङ्गना तिलकनिष्ठुरवज्रदीप्तिस्तस्मिन् , तथा सुरौघमुकुटाचितपादपीठे सुराणां-देवानाम् ओघःसमुदायः सुरौघः, तस्य यन्मुकुटं-शिरोभूषण तत् सुरौघमुकुटम् , तेनाचित पूजितं पादपीठ यस्य स सुरौघमुकुटार्चितपादपीठस्तस्मिन् , शके इन्द्रे; स्वकृत कर्मफलेश्वरेषु स्वकृतं यत् कर्म तस्य यत् फलं-सुखं दुःखं वा, तस्येश्वराःस्वामिनः स्वकृतकर्मफलेश्वरास्तेषु, तिर्यक्षु तिर्यगयोनिजातेषु पशुप-क्ष्यादिषु च, तद्वाक्यपूतमनसाम् अत्र 'त्वद्वाक्यपूतमनसाम्' इति पाठो युक्तः, हे जिन ! त्वद्वाक्येन पूतं-पवित्रमज्ञानमलरहितं मनो येषां ते त्वद्वाक्यपूतमनस्तेषाम्, विकल्पखेदः किं कालकृतोऽयं भेदः-एकः सुरलोकाधिपतिः, अन्यो भारादिवहनादिजन्यदुःखभाजनम्, किंवा स्वभावकृतोऽयं भेदः, उत ईश्वरकृत इत्यादियों विकल्पस्तज्जनितः-तत्र दूषणायुद्भावनप्रभवो यः खेदः, स न नैव, भवतीति शेषः, पुराचीर्णस्वस्वकर्मवैचित्र्यप्रभव एवं देवेन्द्र तिर्यगादिभेदो न कालकृत इत्यहमपि जिनोदितविहतकर्मानुष्ठान कुर्या तदोक्तरभवे इन्द्रादिभवमवमाप्स्यामि, यदि जिनोदितनिषिद्धकर्मानुष्ठान करोमि तहिं क्षुद्रयोन्यादिषु जन्मादिकं दुःखकार्यमवाप्स्यामीत्यलमत्रोत्तप्ततयेति खेदो न भवतीत्यर्थः / / 21 / / परेषां यैरेव हेतुभिः संशयदोलाधिरोहणं जन्तुनिषहेऽनर्थपरिभावनं करुणात्मकं च कथनं तैरेव हेतुभिहें जिन ! तव वाणीप्रभावतो निखिलतत्त्वनिर्णयो माध्यस्थ्यमण्डितं मनो निर्वाणाधिगतिश्च भवतीत्याह