________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / 63 यैरेव हेतुभिरनिश्चयवत्सलानां सत्त्वेष्वनर्थविदुषां करुणापदेशः / तैरेव ते जिन ! वचस्स्वपरोक्षतत्वा ___ माध्यस्थ्यशुद्धमनसः शिवमाप्नुवन्ति // 22 // यैरेवेति- 'यैरेव हेतुभिः, अनिश्चयवत्सलानाम् , सत्त्वेषु अनर्थविदुषां करुणापदेशः, हे जिन ! तव वचःसु [समधिगतेषु] तैरेव अपरोक्षतत्त्वा माध्यस्थ्यशुद्धमनसः शिवमाप्नुवन्ति' इत्यन्वयः / यैरेव हेतुभिः मिथोविरोधमापन्नरेकान्तवादोपदर्शितैहेतुभूतैयुक्ति जालैः, अनिश्चयवत्सलानाम् अनिश्चयःनिश्चयाभावः संशय इति यावत् , स वत्सलः प्रियो येषां तादृशानाम् , स्वाभ्यु. पगतेकान्तनित्यत्वादिवादे पराभ्युपगतैकान्तानित्यत्ववादिवादोपदर्शितयुक्तिकलापविरोधतो न निर्णयं कर्तुं, प्रगल्भन्ते, एवं स्वानभ्युपगतैकान्तानित्यत्ववादमपि स्वाभ्युपगतकान्तनित्यत्वादिवादोपदर्शितयुक्तिकलापविरोधतो न निर्णेतुं प्रभवन्ति, तथा च किमिदं तमिदं वेति संशयदोलामधिरूढानामेकान्तादिनामित्यर्थः, पुनः कीदृशानाम् ? येरेव हेतुभिः इष्टवियोगानिष्टसंयोगादिभिः, सत्वेषु विषमदशामापन्नेषु जीवेषु, अनर्थविदुषाम् अनिष्टं परिभावयताम, करुणापदेशः अरे ! किमस्य पामरस्याभूद् भवति भविष्यति चेत्यादिकरुणात्मकं वचनमात्रं भवति, हे जिन ! तव भवतः. वचःसु 'स्यान्नित्यः स्यादनित्यः, इष्टवियोगादिसम्पादिता विपदादली स्वकृतकर्मण एव फलम्' इत्यादिप्रतिपादकेषु जिनवचनेषु समधिगतेषु सत्सु, तैरेव स्यात्कारसंस्कृतैः, दुःखं स्वकृतकर्मण एव फलमित्यादिवचनानुसंहितैः पूर्वोक्तैरेव हेतुभिः, अपरोक्षतत्त्वाः साक्षान्निर्णीततत्त्वाः, पुनः माध्यस्थ्यशुद्धमनसः माध्यस्थ्येन-तटस्थभावेन, राग-द्वेषराहित्येन शुद्धं-शोकाद्यनाकुलतया पवित्रं मनो येषां तादृशा जिनभक्ताः, शिवं मोक्षसुखम्, आप्नुवन्ति प्राप्नुवन्तीत्यर्थः // 22 // हे जिन ! भवन्तमाश्रितानामनेकजन्मार्जितानामपि गुणानां क्षणेन विनाश एव भवति, कुतस्तत्फलोपभोगः ? त्वद्विमुखस्तु जनो व्यसनोपबंहितानि