SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 64 दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिशिका। गुणफलानि निर्विघ्नं भुङ्क्ते इति गुणफलोपभोगजनक भवद्वैमुख्यमेव . कान्तं, न तु गुणविनाशकं भवत्सां मुख्यमित्यापातभासमाननिन्दामुखेन भगवन्तं स्तौति एकान्तनिर्गुण ! भवन्तमुपेत्य सन्तो __ यत्नार्जितानपि गुणाजहति क्षणेन / क्लीबादरस्त्वयि पुनर्व्यसनोल्बणानि भुङ्क्ते चिरं गुण फलानि हि तापनष्टः // 23 // एकान्तनिर्गुणेति--- 'हे एकान्तनिर्गुण ! सन्तो भवन्तमुपेत्य यत्नार्जितानपि गुणान् क्षणेन जहति, त्वयि क्लीबादरः पुनः. तापनटो हि व्यसनोल्बणानि गुणफलानि चिरं भुक्ते' इत्यन्वयः / हे एकान्तनिर्गुण ! एकान्तेननियमेन, निर्गुण !-परकल्पितसत्त्व-रजस्तमोगुणरहित ! अथवा परोपाधिकगुणरहित ! तेन स्वाभाविकज्ञानादिगुणवत्त्वेऽपि न क्षतिः, सन्तः सज्जना भव्याः, भवन्तं गुणरहितं त्वाम्, उपेत्य स्तुत्यर्चनादिभक्तत्या प्राप्य, यत्नाजितानपि तपः-स्वाध्यायप्रणिधानादिप्रयत्नोपार्जितानपि. गुणान् तिर्यग-नरामराधिपत्यादि लक्षणगुणान् , क्षणेन अल्पसमयेन, जति त्यजन्ति, भवद्भक्तिप्रभावादवाप्तकेवलालोकाः कर्माष्टकविमुक्ता मुक्तिधामोपगच्छन्ति, तत्रस्थानां न कोऽप्यौपाधिको गुण इति; त्वयि वीतरागे भगवति, क्लीबादरः क्लीबो-नपुंसकः फलदाना. समर्थ आदरो भक्तिर्यस्य स क्लीबादरः, भगवति गतादरो यद्वा यथाकथञ्चिद् भक्तत्या कर्मानुष्ठाता पुनः, तापनष्टः तापेन-स्त्री-पुत्र-धनाद्यनवाप्त्यादिजनितपरितापेन, नष्टो-गृहाद् बहिर्गतः, विषयानवाप्तिजनितवैराग्यवान् न तु विषयदोषदर्शनजनितभव विरागवान, हि यतः, व्यसनोल्बणानि व्यसनोपबृंहितानि व्यसनप्रधानानि, गुणफलानि औपाधिकगुणफलानि स्वाराज्यादीनि, चिरंयथा स्यात् तथा, भुङ्क्ते पुनः पुनर्जन्म गृहीत्वा स्वर्गादिगुणफलं भुङ्क्ते, अनेन तपोऽनुष्ठानादि कुर्वन्नपि विषयानवाप्त्यादिजनितवैराग्यवानपि जनो भगवद्यथावद्भक्तिविकलो भवे भ्राम्यत्येव, भगवद्यथावद्भक्तिभाक् तु क्षिप्रमेव मुक्तिधाम प्रयातीत्यर्थः, यद्वा गुणशब्दो रजावपि वर्तते, तथा च जीवबन्धनहेतुतया रज्जुस्थानापन्नानि अष्टविधकर्माणि गुणाः, तदनुसारेण शेषं बोध्यम् // 23 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy