________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिशिका / 65 mommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm आत्मनो यथार्थस्वरूपाभिज्ञो नष्टकामवासनः कृतकृत्यत्वान्न वनवासादिषु पुनः प्रवर्तत इत्याह कुर्वन् न मारमुपयाति न चाप्यकुर्वन् नास्यात्मनः शिवमहद्धर्यबलं निधानम् / वेदन तमेवमवसादितवेदमत्त्वाद् भूयो न दुःखगहनेषु वनेषु शेते // 24 // कुर्वन्निति- 'कुर्वन् मारं नोपयाति, च अकुर्वन्नपि न, अस्यात्मनः शिवमहर्द्धि निधानमबलं न, तमेवं वेदन् अवमादितवेदमत्त्वाद् भूयो दुःखगहनेषु वनेषु न शेते' इत्यन्वयः। कुर्वन् यः कर्माणि कुर्वन् सन्, मारं कामम् , नोपयाति न प्राप्नोति, च पुनः, अकुर्वन्नपि कर्माण्यकुर्वन् अपि, न नेव, मारमुपयातीति सम्बध्यते, एवंविधस्य अस्य प्रत्यक्षादिप्रमाणसिद्धस्य, आत्मनः जीवस्य, शिवमहर्द्धि शिवं-मोक्षसुखं तदेव महर्द्धियंत्र तच्छिवमहद्धि, निधानं ज्ञानादिरत्ननिधिः, अबलं दुर्बलम्, न सर्वतोऽन्यनिधानात् प्रबलं न कदाप्यपक्षीयते, तमेवं वेदन शिवमहद्धिनिधिकमात्मानं जानन् पुरुषः, विदिए चेतनादौ चुरादिः, चुरादिणिचोऽनित्यत्वात् शतरि शवि सौ च वेदन् , यद्वा विद्वानिति पाठः, अवसादितवेदमत्त्वात् अवसादिता-प्रक्षीणा, वेदस्य-पुवेदादेः, मा-लक्ष्मीर्यस्य सोऽवसादितवेदमत्त्वात्, यद्वा “मत्त्वाद्" इति स्थाने "सत्त्वाद्” इति पाठः, दूरीकृतकामवासनाप्रयोजकवेदाख्यकर्मसत्तात इति तदर्थः / भूयः पुनरपि, दुःखगहनेषु व्याघ्रादिनिवासेन दुःखप्रचुरेषु, वनेपु कण्टकवृक्षादिसमुदायाकीर्णावनिषु, न शेते न तपःपरिश्रमोपजातनिद्रासुखमनुभवति, आत्मस्वरूपावस्थितिसुखमनुभवन् कृतकृत्यो न गिरिकन्दरगहनवनादिषु तपस्यतोत्यर्थः // 24 // हे जिन ! तीर्थान्तरीयाधिगतनीतिस्वामित्वेन स्तुत्यस्त्वमेवेत्युपदिशतिकर्ता न कर्मफलभुग न च कर्मनाशः कञन्तरेऽपि च न कर्मफलोदयोऽस्ति /