________________ दिवाकर कृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / कर्ता च कर्मफलमेव स चाप्यनाद्य स्त्वद्वाक्यनीतिरियमप्रगताऽन्यतीः // 25 // कत्तेति- कर्मफलभुक् कर्ता न, कर्मनाशो न च, कान्तरेऽपि कर्मफलोदयो न चास्ति, कर्मफलमेव च कर्ता, सोऽपि चानाद्यः, इयं त्वद्वाक्यनीतिरन्य तीर्थैरप्रगता' इत्यन्वयः / कर्मफलभुग कर्मणो-विहितनिषिद्धोपवासाभक्ष्यभक्षणादिकृतस्याष्टविधकर्मणोऽष्टादिपदवाच्यस्य, फलं-सुखदुःखादिकं भुनक्तीति कर्मभुक् कर्मफलभोक्ता उत्तरकालिकः, कर्ता कर्मानुकूलकृतिमान् पूर्वकालिकः, न नैव, विभिन्नकालीनयोः कर्मफलभोक्तृत्वविशिष्ट-कर्मकर्तृत्वविशिष्टयोरेकान्तिकामेदासम्भवात् , कर्मनाशः कर्मणः-ज्ञानावरणाद्यष्टविधकर्मणः सर्वथा नाशः, न च नैव, कर्मनाशककारणोपनिपाते सति क्षीरनोरन्यायेनात्मप्रदेशैः सममपृथगभावापन्नस्य कर्मपुद्गलस्य पृथग्भाव एव भवति न तु विनाशः, कर्जन्तरेऽपि च कर्मकर्तृभिन्नपुरुषेऽपि च, कर्मफलोदयः अन्यकर्तृककमफलाविभावः, नास्ति न भवति, नाहि चैत्रकर्तृकस्य कर्मणः फलं मैत्रे भवतीति, च पुनः. कर्ता कर्मानुकूलवर्तमानकालीनकृतिमान् , कर्मफलमेव पूर्वजन्मकृतस्य कर्मणः साभ्यभूतप्रयत्नवत्त्वात् फलमेव, पूर्वबद्धकर्मोदयत एवेतद्भवीयकानुकूलयत्नवान् भवति पुरुषो नान्यथा, कर्माभावे तज्जन्यप्रयत्नाभावात् तदाश्रयः कर्ता न स्यादेव दण्डाभावे दण्ड्यभाववत्; सोऽपि च कर्मफलस्वरूपः कर्ताऽपि च, अनाद्यः आद्यरहितः प्रवाहतः कर्मकर्तृपरम्पराया आदिरहितत्वात् , यस्मिन् काले कर्ता न स्यात् तदनन्तरं कर्मापि तत्प्रयत्नबद्धं न भवेत्, कर्माभावे उत्तरकर्मानुकूलप्रयत्नवान् कर्ताऽपि न स्यादित्येवं कर्मकर्तृपरम्परोच्छित्तिरेव स्यात्, हे जिन ! इयम् अनन्तरमुपवर्णिता त्वद्वाक्यनीतिः त्वदुक्तानेकान्ततत्त्वोपदर्शकस्याद्वादनीतिः, अन्यतीथ्र्यैः एकान्तवादिभिः, अप्रगता प्रकर्षणावगता नेत्यर्थः; यद्वा कर्ता कर्मफलभुग् न तर्हि किं कर्म फलमदत्त्वैव नश्यतीत्यत आह-न च कर्मनाशः, तर्हि किं कर्जन्तरे फलोदयोऽस्ति ? इत्यत आहकर्जन्तरेऽपि च न फलोदयोऽस्ति, तर्हि कर्मणः किं फलमित्याह-कर्ता च कर्मफलमेवेति व्याख्येयम्, अन्यत् समानम् // 25 / /