________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / हे जिन ! भीतस्य तव वीरेति नामकरणममरेन्द्रस्याबोधविजृम्भितमेवेति निन्दाव्याजेन स्तुतिमाहभीरोः सतस्तव कथं त्वमरेश्वरोऽसौ वीरोऽयमित्यनवधाय चकार नाम / मृत्योर्न हस्तपथमेत्य बिभेति वीर स्त्वं तस्य गोचरमपि व्यतियाय लीनः // 26 // भीरोरिति-'हे जिन ! असौ त्वमरेश्वरः, भीरोः सतस्तवानवधाय वीरोऽयमिति नाम कथं चकार, वीरो मृत्योर्हस्तपथमेत्य न बिमेति, लीनस्त्वं तस्य गोचरमपि व्यतियाय' इत्यन्वयः / हे जिन ! असौ सर्वलौकिकपरीक्षकप्रसिद्धः, अमरेश्वरः शक्रेन्द्रः, भोरोः सतस्तव भयशालिनः सतस्तव, अनवधाय तव स्वभावविज्ञाय, वीरोऽयमिति अयं वीरपदवाच्य इत्येवं, नाम संज्ञाम्, कथं चकार केन हेतुना कृतवान्, अहं भोरुरित्येव त्वं कथं ज्ञातवानसि येन भीरोः सत इति कथयसीति भगवता पृष्ट इवाह-मृत्योरिति-यमस्येत्यर्थः, हस्तपथं हस्तमार्गम् , एत्य प्राप्य, वीरः पराक्रमशाल्युन्साहवान् पुरुषः, न बिमेति न जातुचिद्भयवान् भवति, लीनस्त्वं अत्यन्तविदूरं यत्र मृत्युरपि न यातुमलं तादृशलोकाग्रन्यवस्थित्न मुक्तिधाम गतस्त्वम्, तस्य मृत्योः, गोचरमपि चक्षुरादिप्रचारप्रदेशमपि, ब्यतियाय व्यतिक्रान्तवानसि, यो यतो भीतः स तथा गुप्तस्थानं गत्वा लोनो भवति यथा तस्य दृष्टिगोचरोऽपि न भवतीति लोकस्थितिरित्यर्थः // 26 // हे जिन ! रवि-शशिप्रकाशातिशायिप्रकाशस्त्वमसीति स्तूयसे विज्ञैरित्याहनादित्यगर्वजमहस्तव किश्चिदस्ति नापि क्षपा शशिमयूखशुचिप्रहासा / रात्रिदिनान्यथ च पश्यसि तुल्यकालं कालत्रयोत्पथगतोऽप्यनतीतकालः // 27 //