________________ दिवाकरकृता किरणावलीकलिता द्वितीया द्वात्रिंशिका / नादित्यगर्वजमह इति-'हे वीर ! तव आदित्यगर्वजमहः किञ्चिन्नास्ति शशिमयूखशुचिप्रहासा क्षपा न, अथ च रात्रिंदिनानि तुल्यकालं पश्यसि, कालत्रयोत्पथगतोऽप्यनतीतकालः' इत्यन्वयः / तव भवतो जिनम्य, आदित्यगर्वजम् आदित्यस्य-सूर्यस्य, यो गर्वः-स्पष्टप्रकाशजनकत्वविषयकः 'अहमेव लोके सर्वस्य जनस्य स्पष्टप्रकाशकः' इत्यभिमानलक्षणः, तस्माज्जातम्, अहः प्रत्यक्षजनकसामग्र्यन्तर्गतसूर्यालोकविशिष्टं दिनम् ; न किञ्चिदस्ति तुच्छं निष्प्रयोजनमित्यर्थः, ज्ञानावरणीयकर्मात्यन्तक्षयजनितस्य त्वत्प्रत्यक्षस्य चक्षुरादीन्द्रियाजन्यत्वेन तत्सहकारिसूर्याद्यालोकानपेक्षत्वात, दिनजातप्रत्यक्षे सूर्यालोक इन्द्रियसहकारितया कारणम् , निशाप्रभवप्रत्यक्षे चन्द्रालोकस्तथा कारणम् . अतो निशाऽपेक्षगीया स्यादित्यपि न वाच्यम्, तत्प्रत्यक्षस्येन्द्रियाजन्यत्वेन यथा न सूर्यालोकापेक्षा, तथा चन्द्रलोकापेक्षाऽपि न भवतीत्याह-नापि क्षपेति / शशिमयूखशुचिप्रहासा शशिनः चन्द्रस्य, ये मयूखाः-किरणाः, तैः शुचिः-श्वेतवर्णः, प्रहासः प्रहसनं यस्याः सा तथा, हास्यस्य श्वेतवर्णत्वमामनन्ति काव्यविदः, क्षपा रात्रिः, नापि नैव. तवेति सम्बध्यते / अथ च स्वप्रत्यक्षकारणतया दिन-रजन्योरभावेऽपि च, रात्रिदिनानि रजनिदिनानि, तुल्यकालं समकालम्, पश्यसि त्वं साक्षात्करोषि, लोकालोकात्मकाखिलविश्वविषयकस्य त्वत्प्रत्यक्षस्य युगपदेव सर्वविषयकत्वात्, कीदृशस्त्वम् / कालत्रयोत्पथगतोऽपि कालत्रयमुलक्यान्यमार्ग गतोऽपि, अनतीतकालः अनतीतः अनुल्लचितः कालो येन स तथेति विरोधः, तत्परिहारे कालत्रयेण उत्सृष्टः पन्था यस्य तत् कालत्रयोत्पथम् , यत्रस्थानां कालत्रयकृतविशेषो नास्ति तादृशं मुक्तिधामेत्यर्थः, तद्गतः तत्प्राप्तः, पुनः न विद्यतेऽतीतकालो यस्य स तथा, स्वप्रागभावाधिकरणकालोऽनागतकालः, स्वाधिकरणकालो वर्तमानकालः, स्वध्वंसाधिकरणकालोऽतीतकालः, सर्वदावतिष्ठमानो भगवान् न कदापि विनाशमुपयातीत्यनतीतकाल इत्यर्थः / / 27 / / कमल-कुमुदविकाशकाभ्यां चन्द्र-सूर्याभ्यां सर्वत्रास्खलितप्रकाशस्य जिनस्य वैशिष्टयावबोधनेन स्तुतिं विदधाति चन्द्रांशवः कमलगर्भविषक्तमुग्धाः . सूर्योऽप्यजातकिरणः कुमुदोदरेषु /